Book Title: Raghuvilasa Natakoddharah
Author(s): Ramchandra Mahakavi, 
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 59
________________ ४२ रघुविलास - नाटकोद्धारः - अष्टमोऽङ्कः । (पुनराकाशे ) स एवैकः श्लाघ्यो रघुपतिरसौ यस्य विरहे हा हा ! वैदेही तृणमिव जहाँ जीवितमपि ॥ १६ ॥ रामः - हा प्रिये वैदेहि ! क्वासि १ । देहि मे प्रतिवचनम् । ( इति मूर्छति । ) ( सुग्रीव- हनूमदादयश्चन्दनादीन् कुर्वन्ति । ) रावणः - ( रामं प्रति सगर्वम् ) अनायुधकरं परं सुरपुरन्ध्रिहास्य हो निहन्तुमधिसङ्गरं न खलु शिक्षिता बाहवः । धनुः स्मर धनुः स्मर द्रुतमतः परं प्राणित प्रथां न तव मृष्यते शबरडिम्भ रे ! रावणः ॥ १७ ॥ राम: - ( साक्षेपम् ) रे रे क्रव्यादखेट ! प्रतिसुभटघटागर्वसर्वङ्कषाणां काकुस्थानां समीके प्रहरणविरहं बाहवः किं श्रयन्ते ? | एते सत्येव देवद्विरदमदमुषः कुम्भकर्णस्य मैत्र्या लब्धास्वादाः पलादासृजि तव रुधिरं पातुमुत्काः पृषत्काः ॥ १८॥ रावणः - ( चन्द्रहासमादाय ) रुन्धानो व्योमरन्धं स्फुरदनलकणैर्दक्षिणेर्माणि मर्मायातन्यानस्त्रिलोकीवलयभुजभृतां दुर्निवारैः प्रहारैः । पायं पायं वनान्तश्चररुधिरजलान्यस्तु धाराकरालः कल्पान्तभ्रान्तकालभ्रकुटिसहचरश्चन्द्रहासो महासिः ॥ १९ ॥ माल्यवान् - वत्स ! विरश्चिः संसोढा न च चिरमपारस्य महसो न च ग्लानेः पात्रं समरभुवि लङ्कापरिवृढः । तदेतन्निःशङ्कं द्वयमपि न विद्मः पुनरिदं विरश्चि: साधीयान् ? किमयमुत लङ्कापरिवृढः ? ।। २० ।। शुकः - आर्य ! खुरलीदुर्ललितयो राम-रावणयोः कस्य विजयं वितर्कयसि १ । माल्यवान् - यः स्त्रीमात्रकृते तृणं मृगयति स्वर्भूर्भुवो वैभवं सन्तः पामरमुद्गुणन्तु तमुत प्रारब्धनिर्वाहिणम् । जानीमः पुनरेतदेव हि वयं युद्धाध्वरश्रोत्रियो नासीन्नास्ति न वा भविष्यति दशग्रीवात् प्रवीरोऽपरः ॥ २१ ॥ १ सङ्ग्रामे । २ असृजि - रुधिरे । Jain Education International ३ बाणाः । ४ अतिशयेन साधुः । For Private & Personal Use Only ५ युद्धयज्ञकुशलाः । www.jainelibrary.org

Loading...

Page Navigation
1 ... 57 58 59 60 61 62