Book Title: Raghuvilasa Natakoddharah
Author(s): Ramchandra Mahakavi, 
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 57
________________ रघुविलास नाटकोद्धारः - अष्टमोऽङ्कः । लक्ष्मणः - (साधिक्षेपम् ) अरे पारदारिक ! नृपतिविन तिशिक्षा सत्रदीक्षापवित्रत्रिजगदभयदुर्गं जानकीजानिरेषः । अनधिगतचराणां कौतुकी बन्धनानां यमधिरणमपश्यत् कुम्भकर्णोऽपि वीरः ॥ ७ ॥ रावणः - ( अनाकर्णितकेन रामं प्रति ) अरे वनेचर । विरम विरम समरसंरम्भात् । न खलु पात्रं लङ्कापतिर्मयं विक्रमाणाम् । ४० 'आसन्नैकोनविंशैः क्षितिभृति गगनान्तर्धृते येन दोर्भिः सोधप्रग्रीवमालाकरणिमुपनैवान्याननानि श्रयन्ते । तस्मिंस्त्रैलोक्यवीरस्मय विजयमयीमभ्यमित्रप्रशस्तिं विभ्राणे स्वर्गराजोऽप्यजनि बहुरेजः किं पुनर्मडिम्भः १ ॥८॥ लक्ष्मणः - ( सोपहासम् ) विगाढान्तः सारः स जगति कुबेरक्षितिधरः, पिशाचः सावज्ञं क्षिपति यमभिव्योम भुजया । पिशाचोऽपि ज्ञातः स च विकचवीरव्रतचण स्तदुत्क्षेपेणापि स्पृशति हृदि दर्पं किमपि यः ॥ ९ ॥ रावणः - अरे कूपकच्छप ! अनभिज्ञोऽसि दाशकन्धरीणां वीरचर्याणाम् । अनिमिष भूयमनिन्दन् मघवा यदसिस्फुलिङ्गनिचिताक्षः । एकधुरस्तस्य पुरः समराङ्गणरङ्गिणः कः स्यात् ? ॥ १० ॥ राम: - (सावहेलम् ) जीर्यन्मर्कटखेटलुण्टितभुजव्यूहावलेपेन यः क्रव्यादेन नियम्य चारककुटीक्रोड कुटुम्बीकृतः । सुत्रामा हतकः स नाकखलपूस्तत्क्षेपंग भैरथो काकुस्थेषु किमेषु रोहति चमत्काराङ्कुरः स्फूर्जितैः १ ॥ ११ ॥ रावणः – ( चन्द्रहासं परामृश्य ) अरे अलीकभुजशौण्डीर्यदर्प ! वृथा आत्मान मुपसंहरसि । न शक्तिः सौमित्रिं यदकृत कृतान्तप्रणयितां नियत्री तत्राभूजनकपतिपुत्रीविधुरता । १ भासन्ना एकोनविंशतिर्येषाम् विंशतिरित्यर्थः । -२ कैलाशे । ३ कपिशीर्षकश्रेणिसादृश्य । ४ उप- समीपे नव येषां तानि उपनवानि दश इत्यर्थः । ५ ईषत् परिसमाप्तं रजो बहुरजः । ६ अन्तर्निर्भरः । ७ कैलाशः | ८ जीर्यता - वृद्धेन मर्कटखेटेन - अधमेन वालिना लुण्टितो भुजव्यूहाऽवलेपो - गर्वो यस्य स तेन । ९ इन्द्रः । १० तस्य - इन्द्रस्य क्षेपः- निन्दा गर्भे येषां तैः 1 Jain Education International , For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 55 56 57 58 59 60 61 62