Book Title: Raghuvilasa Natakoddharah
Author(s): Ramchandra Mahakavi,
Publisher: Bharatiya Vidya Bhavan
View full book text
________________
रघुविलास-नाटकोद्धारः - सप्तमोऽङ्कः ।
३३ अपरथा पुनरार्य !अहंयुनिकराग्रणीरवगणय्य धर्मार्गलां
प्रसह्य यदि जानकीमभिरमेत लङ्कापतिः। अमुष्य ननु रोदसीविजयजिष्णुदोष्णः समि
न्मृगव्यरसिकस्तदा क इह नाम वैतण्डिकः ? ॥ ११ ॥ अनुचितमिदं विन्द्याल्लोकश्चिरादयशो दिशो
व्यथयतु नयभ्रंशादास्तां जगद् अहिलेन्द्रियम् । बलपरिमलक्रीती खर्भूर्भुवस्त्रितयीं पुनः
बहुतृणमहं मन्ये सीतामुखेन्दुवियोजितः ॥१२॥ मारीच:
खण्डय न्यायतेजोभिः शोर ! कौलीनदुर्दिनम् ।
अनीतिधूमरी हन्ति यशश्चतापमञ्जरीम् ॥ १३ ॥ मय:प्रसृमरबलिबन्धो भूर्भुवःस्वस्त्रयेऽस्मि- . .
नमरनगरनाथोन्माथवाणिज्यजन्म । परयुवतिरिरंसाघोरहीरबन्धै
विधुरयसि मुधैव खं यशो हा ! किमेतत् ? ॥ १४ ॥ रावण:-( सरोषम् ) . परयुवतिरसाविति प्रलापो
नियतमयं तव विसंसाप्रमादः। उदवहमहमेव पूर्वमेतां
ननु मनसा शबरः करेण पश्चात् ॥१५॥ मय:-(सविनयम्)
अस्मत्प्रार्थनया, कलङ्कभयतः, सन्यायरक्षाकृते, . धर्मध्वंसविमर्शनात् , किमपरं ? शत्रोः प्रतापेक्षणात् । रक्षःसन्ततिराक्षसी जनकजां मुञ्च, प्रसादं कुरु,
भ्रातस्ते विहितोऽञ्जलिः, किमु नयस्येतां क्षयं बन्धुताम् ? ॥१६॥ रावणः-( सरोषसम्भ्रमम् ) अपात्रं शत्रूणां त्रिदशपुरवीरस्मयचय
व्ययधूतक्रीडासभिकतरवारिर्दशशिराः। १ अहङ्कारि। २ युद्धाखेटक। ३ निवारकः । ४ तृणसदृशाम् । ५ जनप्रवादमेघतिमिरम् । ६ "जीर्णोऽथ विस्रसा जरा" ।
रघु० ना०५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62