Book Title: Raghuvilasa Natakoddharah
Author(s): Ramchandra Mahakavi,
Publisher: Bharatiya Vidya Bhavan
View full book text
________________
रघुविलास-नाटकोद्धारः-सप्तमोऽङ्कः । खलूक्त्वा वैदेहीत्यजनमषडक्षीणमपरं किमप्यायः कार्य दिशतु नयवाचालहृदयः॥१७॥
. (पुनः सदर्पम् ) न मर्यो दैत्यो वा त्रिदश इति वा ज्ञातुमुचितो
दशग्रीवस्तेजःप्रकृति परमं ब्रह्म किमपि । तदेतस्मै हेलातुलितगुरुशैलाय शबरप्रतापप्रागल्भीप्रथनमखिलं भस्मनि हुतम् ॥ १८ ॥
(नेपथ्ये) परोलक्षाः क्षुण्णा रजनिचरवीरैः कपिभटाः __ कनीयांसं शक्तिर्यमशरणमाधत्त शबरम् । निजामिच्छां म्लेच्छेऽप्रथयदथ वर्षीयसि शिखी
प्रतापप्रागल्भी कटरि ! हरिजेतुर्विजयते ॥ १९ ॥ रावण:-( समाकर्ण्य सहर्षविषादम् ) सुधासारः सिञ्चन् श्रुतिकुवलयान्याभ्युदयिकै
रकस्मादस्माकं तिलकयति शौर्य किमपि कः ? । हहा ! नीचैर्वृत्तिः सुरनगरलुण्टाकमहसो
दशग्रीवस्यायं वनचरजयः कः परिणः ? ॥ २०॥ [सुकेतोः पार्थाद् रावणेन कारितमिदं कूटं विभीषणवाक्यम् ।] सेवाश्राद्धसुपर्वकोटिमुकुटप्रग्रीववैहासिका
ग्लानिं वैनयिकस्य कौणपपतेः पादाः सहन्तां मयि। येषां सङ्गरसंयतप्रियतमत्राणाय याजानम
त्पौलोमीतिलकोऽत्यजन्मृगमदो रक्षामषीलाञ्छनम् ॥ २१ ॥ मयः-(सोरस्ताङमुच्चैःस्वरम् ) लङ्कां निःसप्तकृत्वः प्रतिदिशमरयोरौत्सुरण्डीरदोषणः
काण्डीरान् कान्दिशीकान् कृषत विषमयान् लुण्टयामासुराशु । गोष्ठे शरत्वमेवं पुनरसिकुहनाताण्डवैनतयन्तः कष्टं कष्टं हताः स्मः समजनि रजनीचारिवंशो निरंशः ॥२२॥
रावणः-(सखेदम् ) दर्प संवृणु चन्द्रहास ! रभसः कोऽयं भ्रुवोभृकुटौ ?
हेवाकं विजहीत विश्वविजितौ नाद्यापि किं बाहवः ? ।
१ अलं वैदेहीत्यजनस्य वचनेन । २ षभिनयनदृश्यं रहस्यं षडक्षीणम्, तद्विपरीतमषडक्षीणम् । ३ रावणस्य । ४ गर्वः। ५ देव। ६मुकुटशिखर । ७ एकविंशतिवारान् । ८ रुद्धितवन्तः । ९ समर्थवाहून् । १० धनुष्मतः । ११ निरवयवः । १२ भ्रकुटिविषये ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62