Book Title: Raghuvilasa Natakoddharah
Author(s): Ramchandra Mahakavi, 
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 52
________________ ३५ रघुविलास नाटकोद्धारः-सप्तमोऽङ्कः । तां लङ्कामरुधन पुलीन्द्रकपयः त्रिःसप्तकृत्वः पति वीरम्मन्यभुजोन्मदिष्णुहृदयो यस्याः वयं रावणः ॥ २३ ॥ (पुनः सोपशमम् ) आर्य ! शान्तो भूत्वा नियोजय, किमावहामः १ । मयः मुच्यतां मैथिली, सन्धिः सार्द्धमस्तु रघूवा । भवतु खस्ति लङ्काय, ज्ञातयः सुखमासताम् ॥ २४ ॥ रावण:-(मन्दोदरी प्रति ) इहाऽऽनीता सीता यदनुचितमेकं तदभवद्, द्वितीयं यद् भाने पुनरुपनीता वनजुषः। इदं तार्तीयीकं भवति पुररोधप्रतिभिया समप्यतां सन्धिं घटयति यदीशः पलभुजाम् ॥ २५॥ अपि च देवि! खगबिम्बच्छलाद् यस्य खात्मैवाधिधं द्विषन् । निष्ठितारिः स सन्धत्ते रावणः किं वनेचरान् ? ॥ २६॥ प्रत्यग्रयौवनभुजार्गलसाहसिक्य कन्थाभिराभिरलमद्य पटचरीभिः। उद्बुद्धवार्द्धकभिदेलिमबाहुदण्ड पण्डोचितं किमपि वृत्तमुदाहरख ॥ २७॥ मन्दोदरी-( रावणस्य पादौ शिरसि निधाय सदैन्यम् ) 'अजउत्त! जं तादो विन्नवेदितं पडिवजसु ।। रावणः-देवि ! मुश्च मुञ्च, प्रतिपन्नस्ते कदाग्रहः । ( पुनः सोपशमम् ) कस्कोऽत्र ? (प्रविश्य ) कुन्दः-आदिशतु देवः। रावण: ब्रज कुन्दः ! सन्धिघटनाहेतोः ( पुनः सरोषं चन्द्रहासं परामृश्य ) अरे मां शठः! शौर्यात् कोऽश्लथयत् ? (मयादयः सर्वे सभयं तिरोदधते ।) 1) आर्यपुत्र ! यद् भ्राता विज्ञपयति तत् प्रतिपद्यख । १ किं कुर्मः । २ तृतीयम् । ३ अधिमृधिं-अधिसङ्गरम् । ४ जीर्णामिः। ५ श्लथमकरोत् । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62