Book Title: Raghuvilasa Natakoddharah
Author(s): Ramchandra Mahakavi, 
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 53
________________ ३६ रघुविलास-नाटकोद्धारः - सप्तमोऽङ्कः । . रावणः-(पार्श्वतो विलोक्य ) कथं न सविधे कोऽप्यस्त्यहं केवलः। (सवितर्कम् ) कोऽहम् ? (विनिश्चित्य) हुं ननु रावणः (सविमर्शम् ) किमिदम् ? (विनिश्चित्य ) आः ! सन्धापरैः ( सगर्वम् ) रावणः सन्धत्ते द्विषतः (सनिर्वेदम् ) प्रतीच्छति न किं ? काङ्कन प्रियां जानकीम् ॥ २८ ॥ [खण्डितवृत्तमिदं काव्यम् । ] क्रूरः-देव ! प्रतिपक्षभयाकुलमवेक्ष्य राजकुलं शक्रपदातयः स्खं बन्दिलोकमपहृत्य गताः। रावणः-(साक्षेपम् ) दशास्ये दास्याय स्पृहयति विदेहेन्द्रदुहितुः स शक्रः खं लोकं हरति, हरतां, किन्नु रुचिरम् ? । कृतार्थे त्वेतस्मिन्नमरनगरी किश्चिदपि यद् विगाहेत स्वास्थ्यं तदथ यदि चक्रं कलयति ॥ २९ ॥ रावण:-( मयं प्रति साक्षेपम् ) "दशास्ये दास्याय स्पृयति बिदेहेन्द्रदुहितुः”। पश्चादपि सन्धानमाधास्यामः । साम्प्रतं पुनः त्वं तूर्णमानुपदिकं त्रिदिवाङ्गनानां __श्रीकुम्भकर्णमुत शक्रजितं विधेहि । येन क्षिपाचरपतेः पुरुहूतकान्ता हञ्जीरहेषितसुधां श्रुतयः पिबन्ति ॥ ३०॥ (पुनः क्रूरं प्रति सदर्पम् ) मास्म विषादनिषादं स्पृश । १ अनुपदं चरतीति । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62