Book Title: Raghuvilasa Natakoddharah
Author(s): Ramchandra Mahakavi,
Publisher: Bharatiya Vidya Bhavan
View full book text
________________
३२
रघुविलास नाटकोद्धारः - सप्तमोऽङ्कः ।
मयः - ( मन्दोदरीं प्रति ) वत्से ! उठवण्ठनटपेटकसूत्रधारः सीताखयग्रहमहग्रहिलः पतिस्ते । अस्मादृशां किमधुना मधुना समिद्धकामेन्धनान्धलमतिः स गिरः शृणोति ? ॥ ५ ॥ मयः - ( रावणं प्रति )
न खलु तनुते देवः कीर्त्तेरनौपयिकीः क्रियाः स्वयमपि ततो वाच्यं किञ्चिचकास्ति न मादृशाम् । उचितमनिशं श्रोतुं भूम्ना नया ऽनयदृश्वनां, तदपि जरतां रक्षोवंशप्रियङ्करिणीर्गिरः ॥ ६ ॥
मारीचः -
विन्दन्तु सौहार्दमथाप्यसौहृदं महीभुजः स्वैरविहारचेतसः ।
अंतामसीमर्हति शंसितुं पथैः
परो रजोभिः सचिवः पुनः क्रियाम् ॥ ७ ॥ रावण - ( सप्रमोदम् ) यथारुचितमुच्यतां किमसुखाकरं वर्त्मनः ?
प्रियाकरमुपासितुं प्रवयसां वयं कर्मठाः । taraप निषादिनो गजमिवोन्मदिष्णुं नृपं प्रतीपयितुमुत्पथादनिशमीशैते मन्त्रिणः ॥ ८ ॥ मयः - देव ! सीतापहारमतितरां जुगुप्सते लङ्कालोकः । रावणः - (सावहेलम् )
अविदितपथः प्रेम्णां बाह्योऽनुरागरुजां जडो
वदतु दयिता मैत्रीवन्ध्यो यथाप्रतिमं जनः । मम पुनरियं सीता राज्यं सुखं विभवः प्रियं हृदयमसवो मित्रं बन्धू रतिर्धृतिरुत्सवः ॥ ९ ॥ ( पुनः सखेदम् ) आर्य ! किमेकमस्य पामरप्रकृतेर्लङ्कालोकस्य विचारचातुरीवैमुख्यमुद्भावयामि ? |
अस्यां प्रेमगमेव वाग्मनसयोरुत्तीर्णमन्यस्य चेद् वैदेयां नयनैकलेालवणप्रारोहभूमौ भवेत् ।
कापेयं परिरभ्य स प्रकटयनुल्लुण्ठभूयं हठात्
किञ्चित्कामितमादधीत कृतवान् वेधास्तु मां रावणम् ॥ १० ॥
१ वसन्तेन । २ न उपायेभ्यो हिता अनौपयिकी । ३ तमोर हिताम् । ४ निवर्त्तयितुम् । ५ समर्था भवन्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62