Book Title: Raghuvilasa Natakoddharah
Author(s): Ramchandra Mahakavi, 
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 45
________________ रघुविलास नाटकोद्धारः-षष्ठोऽङ्कः । संरब्धे प्रतिपन्थिनि प्रतिदिशं वाचंयमो मास्म भूः, सन्तप्तान् हृदयङ्गमेन वचसा सन्तर्पयास्मान् क्षणम् । हेवाकः क स ते जगत्रयभयप्रेत्यासदीक्षोन्मुखः ? कायं वीरमृगाङ्क ! कातरकलाशाली रणानुद्यमः ? ॥ ४ ॥ लक्ष्मणः- हनूमन् ! सतूणीरं चापं सूर्यहासं चोपानय । हनूमन्-इदम् । लक्ष्मणः-विभीषण ! पाणी मे योजय । (बिभीषणस्तथा करोति ।) लक्ष्मणःभ्रातः कार्मुकदण्ड ! मित्र शरधे ! श्रीसूर्यहास प्रभो! क्षन्तव्यं विनयक्रमातिपतनं कार्यः प्रयत्नस्तथा। आर्यः प्रीणयते यथा जनकजामस्मान् धिगात्मम्भरीन् प्रीणात्येष बिभीषणः खलु यथा लङ्काधिपत्यश्रियम् ॥५॥ रामः-(ससम्भ्रमम् ) वत्स! किं त्वां व्यथयति । लक्ष्मणः-आर्य! चरणाम्भोजप्रणयप्रवासो मां व्यथयति । रामः-(साक्षेपम् ) धिर वाचस्तव मङ्गलप्रशमिनीरिक्ष्वाकुवंशाशिव क्षोदिन्यः प्रणयप्रवासविपदं देव्यो हरिष्यन्ति नौ। सोढव्यः स पुनर्निमील्य नयने कालः करालाकृति विद्वत्स ! करोति हेतिपटली भस्मसात् पावकः ॥ ६ ॥ बिभीषणः-प्रतिहतममङ्गलम् । जाम्बवन्तः - देव ! कोऽयं त्रिभुवनामङ्गलप्ररोहहेतुाहारः ? । रामः - अमात्य ! विनाऽप्याज्ञां राज्ञः किल रघुपतेः काननमयं __ मया साद्ध वत्सः सहजविनयादेव समगात् । परे लोके यात्रां विदधतममुं यद्यहमनु- ब्रजेयं नो पूष्णः कुलमपतुलं स्यान्मलिनितम् ॥ ७॥ [ लक्ष्मणस्य शक्तिभेदितस्य रामं प्रति मुत्कलापनवाक्यम्-] शुश्रूषाश्रमतो जडत्ववशतश्चापल्यतो बाल्यतो वैयात्येन भुजामदेन ललितारम्भेण मान्येन वा। १ शीतलीकुरु। २ निराकरण। ३ सभस्त्रं कोदंण्डम् । ४ सूर्यस्य कुलम् । ५ सेवाखेदात् । ६ धार्थेन । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62