Book Title: Raghuvilasa Natakoddharah
Author(s): Ramchandra Mahakavi,
Publisher: Bharatiya Vidya Bhavan
View full book text
________________
रघुविलास नाटकोद्धारः-षष्ठोऽङ्कः । वाक्चेतस्तनुभिर्यदस्मि विनयभ्रंशस्पृहां लीढवान्, आर्येण प्रियबान्धवेन विधुरे तन्मर्षणीयं मयि ॥८॥
(रामः सास्रं प्रलपति ।) बिभीषणः- समाश्वसिहि, समाश्वसिहि । रामः-(सगद्गदम् ) भ्रातमी व्यसनाब्धिमग्रमधुना हातुं न ते युज्यते
त्वद्दोर्दण्डबलेन राक्षसकुले ख्यातोऽस्म्यहं विक्रमी । द्राग् निद्रां तदिमां विमुञ्च यदहं न्यासीकृतस्तेऽम्बया
बाष्पाऽव्यक्तगिरा वनाय चलतस्तद् वत्स! किं विस्मृतम् ॥९॥ लक्ष्मणः-( सक्रोधम् ) आर्य ! ब्रूहि क एष कातरदशाशंसी शुचां सङ्ग्रहो ?
दैन्यं मास्म कृथा वृथा गिरि हहा! ज्येष्ठे कठोरं वचः। धिग् मां वैनयिकातिपातनिरतं कस्कोऽत्र भोः ! सत्वरं
लीढाग्नीः समिधः समाहर हेरे येनाऽऽत्मनः कल्मषम् ॥१०॥ लक्ष्मणः- (आत्मानं प्रति ) नाऽऽकीर्णा दशकन्धरी पलभुजां पत्युः सितैः पत्रिभि
दत्ता नापि बिभीषणाय सुहृदे लङ्काधिपत्यस्थितिः । वैदेहीविरहाग्निमग्नमनसो नाऽऽर्यस्य सन्दर्शिता
जातं जन्म वृथा हहा ! रणधुराधौरेयदोष्णोर्मम ॥ ११ ॥ रामः-(सबाष्पम् ) तात ! त्रातः ! सुभटसुभग ! प्रीणयन्त्यौ त्रिलोकी
मेकं वारं क्षिप मयि दृशावेष बद्धोऽञ्जलिस्ते । ज्येष्ठे बन्धौ प्रलपति पुरो दीनदीनैर्वचोभिर
भ्रातर्घातः ! स्वपिषि समरे दीर्घया निद्रया किम् ? ॥ १२ ॥ विभीषणः- (साक्षेपं रामं प्रति)
दुःखयत्यस्तसम्बन्धान बन्धुमृत्युर्मुनीनपि ।
प्रेमावनद्धमनसः किं पुनर्ग्रहमेधिनः ? ॥ १३ ॥ रामः-( सास्रम् ) योद्धारो रणरङ्गमल्लकपयः कानन्ति ते विक्रम
शेषे तात ! किमद्य राक्षसचमूचक्रे युधं क्रामति । १ कृतवान् । २ अपनयामि। ३ पापम् । ४ तीक्ष्णैः । ५ बाणैः। ६ स्वपिषि। ..
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62