SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ रघुविलास नाटकोद्धारः-षष्ठोऽङ्कः । वाक्चेतस्तनुभिर्यदस्मि विनयभ्रंशस्पृहां लीढवान्, आर्येण प्रियबान्धवेन विधुरे तन्मर्षणीयं मयि ॥८॥ (रामः सास्रं प्रलपति ।) बिभीषणः- समाश्वसिहि, समाश्वसिहि । रामः-(सगद्गदम् ) भ्रातमी व्यसनाब्धिमग्रमधुना हातुं न ते युज्यते त्वद्दोर्दण्डबलेन राक्षसकुले ख्यातोऽस्म्यहं विक्रमी । द्राग् निद्रां तदिमां विमुञ्च यदहं न्यासीकृतस्तेऽम्बया बाष्पाऽव्यक्तगिरा वनाय चलतस्तद् वत्स! किं विस्मृतम् ॥९॥ लक्ष्मणः-( सक्रोधम् ) आर्य ! ब्रूहि क एष कातरदशाशंसी शुचां सङ्ग्रहो ? दैन्यं मास्म कृथा वृथा गिरि हहा! ज्येष्ठे कठोरं वचः। धिग् मां वैनयिकातिपातनिरतं कस्कोऽत्र भोः ! सत्वरं लीढाग्नीः समिधः समाहर हेरे येनाऽऽत्मनः कल्मषम् ॥१०॥ लक्ष्मणः- (आत्मानं प्रति ) नाऽऽकीर्णा दशकन्धरी पलभुजां पत्युः सितैः पत्रिभि दत्ता नापि बिभीषणाय सुहृदे लङ्काधिपत्यस्थितिः । वैदेहीविरहाग्निमग्नमनसो नाऽऽर्यस्य सन्दर्शिता जातं जन्म वृथा हहा ! रणधुराधौरेयदोष्णोर्मम ॥ ११ ॥ रामः-(सबाष्पम् ) तात ! त्रातः ! सुभटसुभग ! प्रीणयन्त्यौ त्रिलोकी मेकं वारं क्षिप मयि दृशावेष बद्धोऽञ्जलिस्ते । ज्येष्ठे बन्धौ प्रलपति पुरो दीनदीनैर्वचोभिर भ्रातर्घातः ! स्वपिषि समरे दीर्घया निद्रया किम् ? ॥ १२ ॥ विभीषणः- (साक्षेपं रामं प्रति) दुःखयत्यस्तसम्बन्धान बन्धुमृत्युर्मुनीनपि । प्रेमावनद्धमनसः किं पुनर्ग्रहमेधिनः ? ॥ १३ ॥ रामः-( सास्रम् ) योद्धारो रणरङ्गमल्लकपयः कानन्ति ते विक्रम शेषे तात ! किमद्य राक्षसचमूचक्रे युधं क्रामति । १ कृतवान् । २ अपनयामि। ३ पापम् । ४ तीक्ष्णैः । ५ बाणैः। ६ स्वपिषि। .. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002798
Book TitleRaghuvilasa Natakoddharah
Original Sutra AuthorRamchandra Mahakavi
Author
PublisherBharatiya Vidya Bhavan
Publication Year1982
Total Pages62
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy