Book Title: Raghuvilasa Natakoddharah
Author(s): Ramchandra Mahakavi, 
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 44
________________ ॥ अथ षष्ठोऽङ्कः ॥ जाम्बवन्तः-समाकर्णितपूर्वया कृतमपरया कथया, कथय तावत्, भवन्तमुपलभ्य प्रथमं किमजनि रजनिचरचक्रवर्तिनः । चन्द्रराशि:साकूतं किमपि प्रदीप्तमपरं' दोलायितं किश्चन स्तब्धं किश्चन किञ्चन प्रहसितं किञ्चित् पापांसुरम् । किश्चिद् विस्मित मन्यदुन्नत मवाक् किञ्चित् किमप्युत्सुक मामालोक्य दशापि रावणमुखान्याप्तानि भिन्नां स्थितिम् ॥१॥ (नेपथ्ये) हा वत्स त्रिभुवनैकमल्ल ! हा सोडीरकुञ्जर ! । जाम्बवन्तः- ( सभायाम् ) गोमुख ! किमिदम् ? । गोमुखः - ( सास्रम् ) दिव्यशक्त्या शक्त्या रावणेन लक्ष्मणो वक्षसि ताडितः । (ततः प्रविशति राम-सुग्रीवाभ्यां दत्तहस्तावलम्बः शक्तिसक्तवक्षा लक्ष्मणः, बिभीषण १ अङ्ग २ अङ्गद ३ हनूमन्त ४ पवनञ्जय ५ चन्द्रराशि ६ कुन्द ७ कुमुद ८ गवयु ९ गवाक्ष १० प्रभृतयो वनौकसश्च ।) जाम्बवन्तः-( सुग्रीवं प्रति ) व्यूहमध्यमध्यास्तां कुमारः। जाम्बवन्तः-(विमृश्य ) अरे ! कपिवीराः कियन्तो विपन्नाः ? । वानरः- चतुर्दशायुतानि । ( इत्यभिधाय निष्क्रान्तः ।) रामः-वत्स ! किं बाधते । लक्ष्मणः-(मन्दस्वरम् ) न किञ्चित् । ( पुनरपवार्य सुग्रीवं प्रति) वाचः स्खलन्ति गात्राणि शुष्यन्ति भ्रश्यति श्रुतिः। याति ध्यामलतां दृष्टिः श्रोत्रं श्रोतुं न काशति ॥ २ ॥ राम: - वत्स ! किं बाधते ? । (लक्ष्मणः वेदनामभिनीय तूष्णीमास्ते । ) रामः-( सास्रम् )। धीरोत्तंस! पराक्रमैकशरणे, धौरेय! तेजस्विनां, स्थानां धाम !, कृतज्ञविज्ञगरिमावास ! प्रवास ! द्विषाम् । गम्भीर ! प्रतिपन्नवत्सल ! महात्यागिन् ! शरण्याग्रिम! ज्येष्ठे क्रन्दति बान्धवे मयि निजे दृष्टया प्रसीद क्षणम् ॥ ३॥ 1 धूसरम् । 2 ऊर्ध्वमुखम् । 3 अधोमुखम् । 4 दशभिः सहस्रैः एकमयुतम् , १४०००० । Jain Education International sucation International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62