Book Title: Raghuvilasa Natakoddharah
Author(s): Ramchandra Mahakavi, 
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 40
________________ २३ रघुविलास-नाटकोद्धारः- पञ्चमोऽङ्कः । रावणः-किञ्चवेश्मन्यायोजितो येन हरिर्मातङ्गकर्मसु । पौलस्त्यस्याऽऽहवे मल्लः कस्तस्याऽपूर्ववेधसः ? ॥ १३ ॥ सौखप्रसुप्तिकविधौ धिषणो नदीष्णः सौलातिकः सकलदैत्यमहत्तरश्च । लालाटिकास्तदपरे ग्रहराशि-तारा यस्याप्रियङ्करमनुष्य किमस्तु मूर्धाम् ? ॥ १४ ॥ अपि च विचित्राभिप्रायो जनः । कैलासोद्धरणं तथा न, न तथा दोपहारो हरेः, नाप्युत्कन्धरहैहयेश्वरभुजादम्भोलिभङ्गस्तथा । सीताप्रेमविसंस्थुलो दशमुखः स्वैर्मूर्द्धभिर्मेदिनी खण्डं मण्डितवान् तदेतदधिकं की] यथा भाति नः ॥१५॥ रावणः-( कलकण्ठं प्रति ) इत्थं किमिदमरावणोचितं विपञ्चयसि ? ममापि नाम दशकन्धरस्य रिपवः । अम्भोदाः ! सप्तकृत्वः स्थगयत निखिलं मण्डलं चण्डभानो देवः श्रीराक्षसेन्द्रो न खलु विषहते पादसंस्पर्शमेषः। इत्थं यस्य प्रयाणे तुमुलयति दिशः खर्गिणां चाटुकार स्तं योद्धं यातुधानाधिपमधिमनसं कोऽभिकाङ्केत् सकर्णः ? ॥१६॥ ( पुनः सखेदम् ) यदि वा सौविदल्ल! लून वनेचरशिशोर्न शिरो न गाढ___ मासादितो जनकजापरिरम्भकेलिः। दम्भोलिकोणकिणचन्द्रकसिमलानां, दोष्णां पुरन्दरजयेन क एष दर्पः ? ॥ १७ ॥ (पुनः सविषादम् ) कियदिदमिति बुद्ध्या दर्पकण्डूलबाहुः सुरविजयकथाभिवीडमालम्बते यः। मनुजभुजकलाभिर्भाप्यते सोऽपि लङ्का पतिरहह ! विपाकः कर्मणां कोऽप्यचिन्त्यः ॥ १८॥ १ सुखरात्रिपृच्छकः । २ बृहस्पतिः। ३ कुशलः । ४ सुस्नातपृच्छकः । ५ शुक्रः । ६ भालपट्टे रेषां पृच्छन्ति । ७ रावणस्य । ८ सहस्रार्जुनः। ९ सप्तवारान् , वारस्य संख्यायाः कृत्वस् । १० राक्षसः । ११ कुष्ठिनाम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62