Book Title: Raghuvilasa Natakoddharah
Author(s): Ramchandra Mahakavi,
Publisher: Bharatiya Vidya Bhavan
View full book text
________________
रघुविलास-नाटकोद्धारः - पञ्चमोऽङ्कः। विरञ्चिरुपदीविधौ चतुरबुद्धिऋद्धौजसं, __ दशास्यमुपसेवितुं घटितवान् विदेहात्मजाम् ? ॥७॥ बिभीषणः- ( सविनयम् ) देव ! किमपि विज्ञपयितुकामोऽस्मि । रावणः-विज्ञपय । [विभीषणः-] एकस्यैव वनेचरस्य कपयः सर्वेऽपि यत् पत्तयो
ऽभूवन् वीरमतल्लिका[:] प्रतिमुहुस्तन्मेऽन्तरुल्लिख्यते । विश्वेषूत्सवहेतवो न विधयः, कालो हि वैचित्र्यभाग,
भ्रातः! शान्तिमुपैहि, नन्दतु चिरं सोऽयं कनिष्ठो जनः॥८॥ रावणः - ( साश्चर्यम् ) यक्षस्तटपृष्ठघृष्टरदनं कान्तं निरीक्ष्य क्षणं
चक्षुः कोपकैडारमन्यकरिणीभ्रान्त्या बभूवाऽभ्रमोः। कैलासोद्धरणव्रणस्थपुटितस्कन्धस्य तस्याऽऽहवे
लङ्केन्द्रस्य भयं वयं वनचरात् सम्भाव्य रोमाञ्चिताः॥९॥ अपि च - तामेतां दधते स जिह्मगपतिः कश्चिद् द्विजिह्वः क्षमा
यादः कोऽपि स कच्छपोऽथ पशवस्ते केऽपि दिग्दन्तिनः। वीराद्वैतकथां तथापि वहते नाथः क्षिपाचारिणा
मित्थं यः सततं विषीदति स किं साध्यो द्विषां रावणः? ॥१०॥ मारीचः-(प्रणम्य ) देव ! प्रसीद भव सर्वजनीनबुद्धि
र्नानात्मनीनमनुतिष्ठति तुन्दिलश्रीः । 'वैरङ्गिक त्रिजगतो विजहीहि कर्म
शर्माणि संश्रयतु शाश्वतिकानि लङ्का ॥ ११ ॥ रावणः-(साहकारम् ) आर्य ! मा भैषीरधिसङ्गरं वनचरं व्यापादयिष्ये, स वा
हन्यान्मां, धिगमङ्गलं, न धिगथो व्यापत्तिरप्युत्सवः। मूर्द्धानः समिधः कृताः सुरंजिता शस्त्रानलस्याऽऽहवे
मत्प्रेम्णा तदिदं विदेहतनया पश्चादपि ध्यास्यति ॥१२॥ १ प्राभृतविधौ। २ रक्तम्। ३ ऐरावणप्रियायाः। ४ भुवम् । ५ सर्पपतिः। ६ शेषः । ७ "अन्तर्जलचरं सत्त्वं क्रूरं यादोऽभिधीयते”। ८ स्फारलक्ष्मीकः । ९ विरागाहम् । १० रावणेन । .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62