SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ रघुविलास-नाटकोद्धारः - पञ्चमोऽङ्कः। विरञ्चिरुपदीविधौ चतुरबुद्धिऋद्धौजसं, __ दशास्यमुपसेवितुं घटितवान् विदेहात्मजाम् ? ॥७॥ बिभीषणः- ( सविनयम् ) देव ! किमपि विज्ञपयितुकामोऽस्मि । रावणः-विज्ञपय । [विभीषणः-] एकस्यैव वनेचरस्य कपयः सर्वेऽपि यत् पत्तयो ऽभूवन् वीरमतल्लिका[:] प्रतिमुहुस्तन्मेऽन्तरुल्लिख्यते । विश्वेषूत्सवहेतवो न विधयः, कालो हि वैचित्र्यभाग, भ्रातः! शान्तिमुपैहि, नन्दतु चिरं सोऽयं कनिष्ठो जनः॥८॥ रावणः - ( साश्चर्यम् ) यक्षस्तटपृष्ठघृष्टरदनं कान्तं निरीक्ष्य क्षणं चक्षुः कोपकैडारमन्यकरिणीभ्रान्त्या बभूवाऽभ्रमोः। कैलासोद्धरणव्रणस्थपुटितस्कन्धस्य तस्याऽऽहवे लङ्केन्द्रस्य भयं वयं वनचरात् सम्भाव्य रोमाञ्चिताः॥९॥ अपि च - तामेतां दधते स जिह्मगपतिः कश्चिद् द्विजिह्वः क्षमा यादः कोऽपि स कच्छपोऽथ पशवस्ते केऽपि दिग्दन्तिनः। वीराद्वैतकथां तथापि वहते नाथः क्षिपाचारिणा मित्थं यः सततं विषीदति स किं साध्यो द्विषां रावणः? ॥१०॥ मारीचः-(प्रणम्य ) देव ! प्रसीद भव सर्वजनीनबुद्धि र्नानात्मनीनमनुतिष्ठति तुन्दिलश्रीः । 'वैरङ्गिक त्रिजगतो विजहीहि कर्म शर्माणि संश्रयतु शाश्वतिकानि लङ्का ॥ ११ ॥ रावणः-(साहकारम् ) आर्य ! मा भैषीरधिसङ्गरं वनचरं व्यापादयिष्ये, स वा हन्यान्मां, धिगमङ्गलं, न धिगथो व्यापत्तिरप्युत्सवः। मूर्द्धानः समिधः कृताः सुरंजिता शस्त्रानलस्याऽऽहवे मत्प्रेम्णा तदिदं विदेहतनया पश्चादपि ध्यास्यति ॥१२॥ १ प्राभृतविधौ। २ रक्तम्। ३ ऐरावणप्रियायाः। ४ भुवम् । ५ सर्पपतिः। ६ शेषः । ७ "अन्तर्जलचरं सत्त्वं क्रूरं यादोऽभिधीयते”। ८ स्फारलक्ष्मीकः । ९ विरागाहम् । १० रावणेन । . Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002798
Book TitleRaghuvilasa Natakoddharah
Original Sutra AuthorRamchandra Mahakavi
Author
PublisherBharatiya Vidya Bhavan
Publication Year1982
Total Pages62
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy