Book Title: Raghuvilasa Natakoddharah
Author(s): Ramchandra Mahakavi, 
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 41
________________ २४ रघुविलास - नाटकोद्धारः - पञ्चमोऽङ्कः । (पुनः सवितर्कम् ) श्लाघ्यः सैव, यदर्थमेवमनिशं सीता परिक्लाम्यति, क्रूरस्य प्रणयादमुष्य खलु सा नास्मभ्यमुत्ताम्यति । व्यारोहत्परितोष- रोषविकसद्रोमाञ्चसान्द्रीभवद् दोष्णां पश्य वनेचरः कथमभूद् वन्द्यश्च निन्द्यश्च नः १ ॥ १९ ॥ बिभीषणः - ( रावणं प्रति ) डिम्भत्वं वनचारिणोः खरकुलात् प्रत्येति कोऽन्यस्तयो वली यं विनयं व्यधत्त समरे तत्राब्धयः साक्षिणः । पाय मौलिकिरीटकुट्टनमहं देवः स्वयं दृष्टवान्, भ्रातः ! शान्तिमुपैहि सान्त्वय नय-स्थामोदुरौ तौ नरौ ॥ २० ॥ रावणः - ( सखेदमिव ) व्याधूतस्फटिकाद्रिसन्धिनिलयानासूत्रयद्भिः पृथून, प्रीतिर्या वचसामधाम विदधे स्वः खैरिणीनां हृदि । वैदेही परिरम्भणव्यसनिनो लङ्कापतेः साम्प्रतं, दोस्तम्भाः शबरेऽपि पश्य दधते ते स्थामदुःस्थां स्थितिम् ॥ २१ ॥ कल्पान्तताण्डविततापकलापचण्ड मार्त्तण्डमण्डल विडम्बि विलम्बि चक्रम् | दोष्ण्यत्र यावदमरीकचरीकृतान्ते तावत् स पक्कणचरः शबरस्तपस्वी ॥ २२ ॥ ( नेपथ्ये ) धृत्वा करे दशमुखं सविमानराजं क्रीडाशकुन्तमिव पञ्जर भाजमाजी । बभ्राम यो जलधिकूलवनस्थलीषु तस्याहमेष तनयो ननु चन्द्रराशिः ॥ २३ ॥ ( प्रविश्य चन्द्रराशिः रावणं प्रणमति । ) रावणः - ( साक्षेपम् ) अरे बैलीमुख ! किमर्थं लङ्कामधिगतवानसि ? | [ चन्द्रराशि:- ] इदमादिशन्ति रामभद्रपादाः । रावणः - ( चन्द्रहासं परामृश्य सखेदम् ) कोsप्यस्ति काननचरः, स च रावणाय क्रुद्धः समादिशति दूतमुखेन कृत्यम् । श्रीचन्द्रहास ! मुषितेन्द्रवधूविलास ! दृष्टस्त्वया हतविरिञ्चिविचारसारः ॥ १ जानाति । २ सुग्रीवभ्राता । ३ वराकः । ४ वानरः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62