Book Title: Raghuvilasa Natakoddharah
Author(s): Ramchandra Mahakavi, 
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 38
________________ ॥ अथ पञ्चमोऽङ्कः ॥ (नेपथ्ये ) हञ्जीरस्खलदंहिरानतमुखः शक्रोऽपि सान्तःपुरः पौराणां पुरतः पुरा श्लथकचो बभ्राम यत्रासकृत् । आः ! कालस्य हतस्य तस्य वशतः सैषाऽपि लङ्कापुरी प्रत्यर्थिप्रतिरोधबद्धनिखिलद्वाराऽधुना वर्त्तते ॥ १ ॥ विभीषणः - कथमयमार्यो विषीदति मारीचः ? | ( प्रविश्य ) मारीचः लोकः संवृतममण्डनविधिर्नाट्यस्य शिक्षाभुवो निस्तालश्रुतयः स्थितः स मधुरः सर्वत्र गीतध्वनिः । प्राकारो भटसङ्कुलः, प्रतिगृहं प्रत्यर्थियात्राकथा, देवे सत्यपि रावणे कथमिमां पुष्णाति लङ्का दशाम् ? ॥ २ ॥ रावणः - " आधाय सर्वसुभगां सुमेधसा वेधसा जनकतनयाम् । सांमग्री न गुणानामियं मृषोद्या श्रुतिर्विहिता ॥ ३ ॥ कलकण्ठः - देव ! रसः कापि कचिद् गन्धो रूपं वचन सुन्दरम् । रसो गन्धश्च रूपं च नारङ्गे त्रितयं स्थितम् ॥ ४ ॥ चलकमलविलासाभ्यासिनी नेत्रपत्रे दशनवसन भूमिबन्धुजीवं दुनोति । स्मरभर परिरोहत्पाण्डिमारूढगर्दै द्युतिविजितमृगाङ्का मोदते गण्डभित्तिः ॥ ५॥ अपि च वैदेहीपदयुगल दृष्टवती भगवती न खलु लक्ष्मीः । कथमपरथा निवासप्रीतिं पङ्केरुहे कुर्यात् ? ॥ ६॥ उपेक्ष्य लवणक्षयं, चिरमपास्य तीव्रं तपो, निरुध्य चपलं मनः, प्रतिनिषिध्य कर्मान्तरम् । Jain Education International १ एकत्र पात्रे समग्रा गुणा न भवन्तीति श्रुतिर्मिथ्या कृता धात्रा । २ अधरपल्लव भूः । ३ बन्धूकम् । ४ सुप्रतिष्ठ । For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62