Book Title: Raghuvilasa Natakoddharah
Author(s): Ramchandra Mahakavi,
Publisher: Bharatiya Vidya Bhavan
View full book text
________________
रघुविलास - नाटकोद्धारः - चतुर्थोऽङ्कः ।
एतास्ततः कतिपयाः (ये ?) प्रियविप्रयोगे कालं क्षिपन्ति कुसुमेषुविकारवन्ध्याः ॥ ७ ॥ [ रावण [य] प्रभातसमये उगच्छतो ( न्तं ? ) रविं प्रति वाक्यम् - ] व्यर्थ स्मापयसे बहूनि कमलान्यादित्य !, तन्मैथिलीवक्राम्भोरुहमेकमेव यततां स्मेरं विधातुं भवान् । स्मेरेsस्मिन् परितापकारिणमतिक्षुद्रं क्षिपायाः पतिं क्षिप्त्वा त्वां क्षणदाखपि प्रथयति स्फूर्जत्प्रभं रावणः ॥ ८ ॥
किश्च -
दिनकर ! कृपयैव प्रेरितश्चेत् तदास्य व्यतिषज विधुरस्य प्रेयसीं चक्रनाम्नः ।
अथ फलमपि किञ्चित् काङ्क्षसि क्लेशलभ्यं
घटय ननु तदानीं जानकीं रावणस्य ॥ ९॥
( रावणः सीतासमीपमागत्य वल्ल्यन्तरितः सीता - त्रिजटयोः परस्परवार्तां शृण्वन्नस्ति । ) सीता - 'तिअडे! यदो पहुदि अहं आणीदा तदो पहुदि अत्थि मे एदम्मि अत्थे अहिलासो ।
रावणः - ( श्रुत्वा सप्रमोदम् ) एतस्मिन् रावणानुसरणेऽस्त्यभिलाषः । केयमनभ्रा श्रवणोत्पलानां सुधावृष्टिः १ । कोऽयं दुस्तपतपः प्रभूतस्य प्राचीनपुण्यविपाकस्य प्रकर्षः ? | (पुनरात्मानमालोक्य )
वाणि हे ! हसत गायत तारतारं,
नेत्राणि ! चुम्बत विहस्य च कर्णपालीम् । दोवल्लयः ! कुरुत ताण्डवडम्बरं च
श्रीरावणं ननु विदेहसुता रिरंसुः ॥ १० ॥ रावणः - ( रामवधवाञ्छावसरे आत्मानं प्रति )
त्रपां क्षणमुपेक्ष्य हे नयत राघवं लाघवं पुरन्दरपराक्रमग्लपनचञ्चवो बाहवः ! | यदि स्फुरति जानकीजघनपीठ - कण्ठस्थलीकपोल फलक- स्तन स्तबककेलिकौतूहलम् ॥ ११ ॥
१७
सीता - ( त्रिजटां प्रति ) यदि रामः कदाचिदपि विनाशं यास्यति तदाऽहं हुताशनं साधयिष्ये ।
1) त्रिजटे ! यतः प्रभृति अहं आनीता ततः प्रभृति अस्ति मे एतस्मिन् अर्थे अभिलाषः ।
१ कन्दर्प । २ विरहिणां परितापकारी । ३ संयोजय ।
रघु० ना० ३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62