Book Title: Raghuvilasa Natakoddharah
Author(s): Ramchandra Mahakavi,
Publisher: Bharatiya Vidya Bhavan
View full book text
________________
रघुविलास नाटकोद्धारः-तृतीयोऽङ्कः । विद्याधरः- जटायुरपि सीताया अनुपदिकश्चन्द्रहासन्यासै रावणेन व्यापादितः । रामःसाक्षाद् यज्ञभुजां निहत्य समरे तं रावणं, प्राणती
यां द्रक्ष्यामि विदेहराजतनयां, सेयं न मां बाधते । प्राणान् यस्तु परोपकारकरणप्रत्याशया केवलं
मत्कार्ये विजही हहा ! कथमयं दृश्यो जटायुर्मया ? ॥ २० ॥ रामः-(लक्ष्मणं प्रति) क्लीवः स्यां शुचमादधे यदि मुहुर्धत्वाऽथ धैर्य भजे
क्रीडां डम्बरिणीं तदा न चरितं प्रेमानुरूपं भवेत् । दुःखावासममुं विदेहदुहितुः कृत्वा प्रवासं हहा!
दैवेनोपनतः शठेन विषमः कोऽप्येष पन्था मम ॥ ११ ॥ विद्याधरः-महाभाग! | सरोषे सौमित्रौ क्षिपति विशिखाली खरशर
च्छिदालंकीणां समरभुवि के नाम रिपवः ? । तदर्यप्रातीनां कलय दशकण्ठव्ययकरी
क्रियामद्यश्वीनं गणय दयिताया व्ययकरम् ॥ २२॥ रामः-( सावष्टम्भम् ) चित्राङ्गद ! निहत्य दशकन्धरं सह विपक्षरक्षाकथा__ प्रथाभिरधिसङ्गरं जनकजां ग्रहीष्ये ध्रुवम् । शशाक न स रक्षितुं रघुपतिः परेभ्यः प्रिया
मयं तदसम्भवी चिरमकीर्तिकोलाहलः ॥ २३ ॥ रामः-( सखेदम् ) वत्स लक्ष्मण ! कलनमपि रक्षितुं निजमशक्तमात्मान्वय
प्रसूतमभिवीक्ष्य मामहह ! जातलजाज्वरः। प्रकाशयितुमक्षमः क्षणमपि स्वसाम्यं जने
प्रयाति चरमोदधौ पतितुमेष देवो रविः ॥ २४ ॥ तदेहि लतागृहमनुतिष्ठामः। .
(इति निष्क्रान्ताः सर्वे ।) ॥ तृतीयोऽङ्कः॥
१ देवानाम् । २ जीवन्तीम् । ३ अलंकर्मीणां मस्तकच्छेदसमर्थाम् । ४ अद्य प्रातर्वा भवा अद्यमातीना। ५अद्य श्वो वा भवमद्यश्वीनम् , कालादक इनश्च अव्ययानामन्त्यस्वरादिलोपश्च ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62