Book Title: Raghuvilasa Natakoddharah
Author(s): Ramchandra Mahakavi, 
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 30
________________ रघुविलास-नाटकोद्धारः - तृतीयोऽङ्कः । रामः-( लक्ष्मणं प्रति) श्लथय सपदि दित्सां वत्स ! हस्तावलम्बे । समुपदिश मनाग् मे वर्त्म भूत्वा पुरोगः। जनकपतिसुतास्याम्भोरुहध्यानरोहजलतरलिततारं नैतदोजखि चक्षुः॥१०॥ [जटायु प्रति रामवाक्यम्-] आर्य ! ब्रूहि रघूद्वहेषु किमियं वृत्तिः पैराची विधेः ? प्रत्यङ्गं तिलशः शठेन निहतः केनापि शातासिना । दुष्प्रेक्षस्य निदानमस्य समभूत् पापीयसः पर्वणः किं न कापि विलोक्यतेऽद्य विपिने सा ते वधूर्जानकी? ॥११॥ पक्षी-(साक्षेपम् ) अस्त्रं शस्त्रमथो गृहाण किमपि व्यक्तं न ते सम्प्रति त्राणं प्राणमुषा जटायुषि रुषा साटोपमास्कन्दति। मनाम्येष विरोधिवीरसमरश्रद्धापुराभोगिनः चञ्चचञ्चपुटाश्रमन्थचलनैस्ते स्कन्धवन्धाम्बुधिम् ॥ १२ ॥ [पुना रामो जटायु प्रति-] संरम्भं त्यज युद्धवीर ! विकटत्रोटेः किमाडम्बरो ? दुर्दान्ताहितशिक्षयोः शिथिलय क्षेपं क्षणं पक्षयोः। नाऽऽस्ते सङ्गररङ्गनर्तनधुराधुर्यः पुरः कोऽपि ते पश्योन्मील्य विलोचने ननु निजी लिग्धाविमौ राघवौ ॥१३॥ पक्षी-(प्रहारवेदनामभिनीय मन्दस्वरम् ) वेत्से ! मा स्म रुदः प्रवीरविजयश्रद्धालुदोर्विक्रमो त्तालव्यालकुलाहितुण्डिकनखः प्राप्तो जटायुः खयम् । रे ऋव्यादनिषाद ! नन्दसि कियत् त्रोटीकुठारत्रुटन् कण्ठाभोगविसंस्थुलःस्फुरदसिन्यासैः किमेभिस्तव ?॥ १४॥ लक्ष्मणः-(सबाष्पम् ) आर्य! निस्पन्दतां वपुरुपैति यथा समन्तात्, पक्षौ यथांसशिखरप्रणयानपेक्षौ। आलिङ्गति क्षितिमियं च यथा शिरोधि जर्जाने तथाऽजनि गतायुरयं जटायुः ॥१५॥ १ रघुपुत्रेषु । २ विपरीता। ३ तिलमात्रखण्डानि कृत्वा । ४ तीक्ष्णखड्गेन। ५ शीते ! । ६ सर्पकुलगारुडिकनखः। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62