Book Title: Raghuvilasa Natakoddharah
Author(s): Ramchandra Mahakavi,
Publisher: Bharatiya Vidya Bhavan
View full book text
________________
१२
रघुविलास नाटकोद्धारः-तृतीयोऽङ्कः । रामः-( साश्रम् ) हा प्रिये वैदेहि ! क मामेकाकिनं सन्त्यज्य गहने वने प्रयाताऽसि ? ( इति भणित्वा मूर्च्छति ।) लक्ष्मणः - (सबाप्पम् )
प्रवासितस्य पुत्रस्य शोकशङ्कुवशां दशाम् ।
पश्य पश्याऽम्ब कैकेयि ! मोदते येन ते मनः ॥ ४ ॥ रामः-(चेतनामास्थाय)
त्वमेव पत्तिमित्रं वा मन्त्री वा बान्धवोऽथवा। तदेहि देहि वैदेहि ! मह्यं दुस्थाय दर्शनम् ॥५॥
(पुनः सवैकल्यम्) अरण्ये मां त्यक्त्वा हरिण ! हरिणाक्षी क नु गता? __पराभूतो दृष्ट्या कथयसि न चे मास्म कथय । अरे क्रीडाकीर ! त्वमपि वहसे कामपि रुषं
यदेवं तूष्णीकामनुसरसि वाचंयम इव ॥ ६ ॥ .... लक्ष्मणः - ( साश्रम् ) आर्य ! किमेतौ तपस्विनौ जानीतः ? तत् कोऽयं व्यामोहः ।
रामः- ( समन्ततो विलोक्य )
कुरुबक! कुतस्ताहम् भूयस्तव स्तवताण्डवं? __ कथयसि कथां कस्य प्रेम्णा पुरः शुकसारिके !? । बकुल ! मैकुलापीडं कस्ते करिष्यति [साम्प्रतं] ?
स्थितमिव तव क्रीडाबर्हिन् ! शिखण्ड विमार्जनम् ॥७॥ रक्ताशोक ! तमाल ! चम्पकलते ! हिन्ताल ! तालाऽऽश्रमे
युष्माकं वयमास्महे चिरमतः कस्मादुपेक्षा मयि ? । जाड्यं मुश्चत दक्षिणाः स्थ करुणां दीनेषु धत्त क्षणं
भिक्षां प्राणमयीं प्रयच्छत बत ! ब्रूत क सा जानकी ? ॥८॥ अनुपकृतयः कामं तूष्णीं द्रुमा दधताममी
उपकृतवती देवी किञ्चित् पुनस्तव केसर !। त्वमथ कथयोदन्तं तस्याः कसा? वसतीह किं
कचिदपि वनोद्देशे ? केनाप्यथो हठतो हृता ? ॥ ९ ॥ १ कलिकामुकुटम् । २ सर्वत्र वृक्षसम्बोधनम् । ३ कुशलाः । ४ अकृतोपकाराः । ५ गण्डूषप्रक्षेपेण । ६ बकुल!।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62