Book Title: Raghuvilasa Natakoddharah
Author(s): Ramchandra Mahakavi,
Publisher: Bharatiya Vidya Bhavan
View full book text
________________
१०
रघुविलास - नाटकोद्धारः - द्वितीयोऽङ्कः ।
[ अवलोकिनी विद्या रावणं प्रति स्वस्फूर्त्तिं कथयति-] सूर्याचन्द्रमसौ ग्रसे, विघटये रात्रिन्दिवस्यावधिं, पत्युर्भागभृतां हरे फणमणीन् द्यावाभ्रुवौ मीलये। मानस्थानविपर्ययेण विदधे स्त्रीपुंसयोर्लक्ष्मणी
"
रक्षोराज ! नियोजय कचिदिमां कृत्ये निजां किङ्करीम् ॥ २३ ॥ [ रावणेन अवलोकिनी पार्श्वात् कारितकूटसिंहनादावसरे भयत्रस्तायाः सीतायाः प्रति रामवाक्यम् - ]
रणरसिकभुजेभ्यो विक्रमोत्ताननेत्राः
कति कति न रघुभ्यस्त्रासमासादयन्ति ? | यदि युगमधिजग्मुस्ते खराद्यास्ततः किं ? स्वयमथ स दशास्यः प्राप कोपात् ततः किम् ? ॥ २४ ॥ ( नेपथ्ये )
हंहो ! शम्बूककण्ठव्ययचतुरकरं क्रूरमेनं मनुष्यं गृह्णीत च्छिन्त भिन्त क्षणुत दलयत खैरमहाय सैन्याः ! भग्ने कोदण्डदण्डे शरधिशरभरे वह्निबाणेन दग्धे
रे रे दास ! क यासि ? स्मर किमपि खरः सोऽहमग्रे कृतान्तः ॥ २५ ॥ ( - इति श्रुतेरनन्तरमेकाकिनीं सीतां लतागृहे मुक्त्वा चापमादाय रामो निष्क्रान्तः । ) रावणः - ( सप्रमोदम् ) सम्प्रति रावणस्यावसरः । ( विमृश्य ) सती खल्वियम्, न शक्यते सावधानाऽपहर्त्तुम् । भवतु | ( उच्चैः स्वरम् ) -
आः क्षुद्रे म्लेच्छपत्नि ! स्मर गुरुविधुरा दैवतं किञ्चिदिष्टं लोलद्दम्भोलि केलिव्रणितकरतलत्रातुमिन्द्रोऽपि नालम् । शम्बुप्राणप्रयाणभ्रकुटि बहु लितक्रोधमैत्री करालः
कालः कालुष्यभाजां हरति खलु खरस्तूलहारं शरस्ते ॥ २६ ॥ ( सीता सभयमाकर्ण्य मूर्च्छति रावणस्तामादाय पुष्पकमधिरोहति । ) सीता - ( चेतनामास्थाय साक्रन्दमुच्चैः स्वरम् ) 'हा अञ्जउत्त ! हा वत्स लक्खण ! हा ताय जणय ! हा भाय भामंडल ! हा वणदेवयाओ अंबाओ ! रक्खेह में असरणं रक्खसेण निअंतीं ।
1 ) हा आर्यपुत्र ! हा वत्स लक्ष्मण ! हा तात जनक ! हा भ्रातर्भामण्डल ! हा वनदेवता अम्बाः 1 रक्षत मां अशरणां राक्षसेन नीयमानाम् ।
१ स्त्री-पुरुषलिङ्गे । २ महाकष्टपीडिता ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62