Book Title: Raghuvilasa Natakoddharah
Author(s): Ramchandra Mahakavi,
Publisher: Bharatiya Vidya Bhavan
View full book text
________________
॥ अथ चतुर्थोऽङ्कः॥
(ततः प्रविशति कञ्चकी।) कलकण्ठः -(रावणमुद्दिश्य )
कुस्वामी च हुताशश्च द्वावप्येतौ सहोदरौ ।
एकः सेवकसन्तापी स्वभावः कथमन्यथा ? ॥१॥ शुकनाशः-( कलकण्ठं प्रति ) सीता तृणायाऽपि रावणं नाभिमन्यते । कलकण्ठः- कमिव (किमेद) मभिदधासि ?
खतो न कश्चन गुरुले घुर्वाऽपि न कश्चन ।
उचिताऽनुचिताचारवश्ये गौरव-लाघवे ॥२॥ शुकनाश:-किं पुनः सर्वकर्माणबुद्धिर्देवो न स्वयमेवाऽवबुध्य दुराचारमपजहाति? कलकण्ठः-किमिदं पुनरचतुरजनोचितं विपञ्चयसि ?।
अधार्मिकमलावण्यमगुणं मर्मभाषिणम् । यः खयं खं विजानाति तेन वन्ध्या वसुन्धरा ॥३॥
(नेपथ्ये) ऐश्वर्य वैदग्धी सौन्दर्य तरुणिमा प्रियवियोगः।
तदिदममूर्ती वहिर्विक्लवयति कं न धीरमपि ? ॥४॥ कलकण्ठः-किमेष लङ्कापतिवैदेहीविरहानलाभितापमनुभवति ? ।
(ततः प्रविशति रावणः कुन्तलकश्च ।) रावणः-कुन्तलक!
दम्भोलिदण्डोऽपि पुरा व्यधत्त __ बाधां न यस्याऽऽहवसौण्डदोष्णः। तां तस्य सीतां स्मरतः प्रकामं
कामेन का मे न कृता व्यथाऽन्तः? ॥५॥ कुन्तलः-(रावणं प्रति)
नवावतारहृद्योऽपि मधुस्तस्या मृगीदृशः।
स्वां विना भूर्भुवाखाश्रीकान्त ! कां तनुतां मुदम् ? ॥६॥ रावणः-कथयति जानकीवियोगवार्ता प्रतिवासरं त्रिजटा- वयं पुनर्न कामपि कामार्तिमुपलक्षयामः।
कुन्तलका-किमेवमादिशति देवः ?
प्रायेण पुंसि परिरम्भण-चुम्बनानि ___ सन्तन्वते[.. .......]वामदृशां स्मरातिम् । १ समरसमर्थभुजस्य । २ करोतु ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62