Book Title: Raghuvilasa Natakoddharah
Author(s): Ramchandra Mahakavi,
Publisher: Bharatiya Vidya Bhavan
View full book text
________________
रघुविलास - नाटकोद्धारः - तृतीयोऽङ्कः।
रावणः
आनन्दाश्रुसुसारिणि ! त्रिभुवनप्रह्लादनाचन्द्रिके!
कोऽयं देवि ! विमर्शवन्ध्यमहिमा वाग्विषुषां विक्रमः ? । रक्षोमात्रमवेत्य मां किमु मुधाऽऽक्रन्दाकुला खिद्यसे ? दासस्ते ननु वीरकुञ्जरभुजः सोऽहं पुरा रावणः॥२७॥
[रावणं प्रति जटायुवाक्यमेतत्-] रे रे रात्रिश्चर ! धर मनाक पुष्पकं कं शरण्यं
हृत्वा सीतां रचयसि ? पुरो नन्वयं ते जटायुः । शातप्रान्तैः खरकररुहैर्वज्रदण्डवणार्दा गुच्छच्छेदं तव दशमुखीमेष सद्यश्छिनद्मि ॥२८॥
॥ इति द्वितीयोऽङ्कः॥
॥ अथ तृतीयोऽङ्कः ॥ [सीताहृत्यनन्तरं रामस्य लक्ष्मणेन सह स्वस्थानोपरि मार्गे समागच्छतः वामाक्षि
स्फुरणानन्तरमेतद् वाक्यम् -] त्यक्तास्ताः कुलभूमयः, परिहृताः शोकाकुला ज्ञातयः,
प्रारब्धा वनचारिणां समुचिता वृत्तिस्त्रपाकारिणी। एतस्मिन् विहितेऽपि दुष्करविधौ वेधा विधास्यत्ययं यत् किश्चित् पुरतः प्रपत्तुमखिलं रामस्तमप्युत्सुकः॥१॥
(पुनरवलोक्य साशङ्कम् ) वृक्षे वृक्षे करटपटलान्युच्चकैाहरन्ते,
धावन्त्येते ककुभि ककुभि क्षुत्करालाः शृगालाः। भूयो भूयः क्लमयतितमामश्रमिश्रः समीरः,
त्रस्तं त्रस्तं विपिनमधुना वत्स ! कस्मादकस्मात् ? ॥२॥ लक्ष्मणः-(साश्रम् ) यथा त्रस्तः क्रीडामृगशिशुरयं धावति जवाद्
यथा लीलाबी वियदभिमुखं रौति चकितः। यथा तूष्णीमास्ते तरलनयनः पञ्जरशुकः
तथा जाने सीताविरहितमिदं काननपदम् ॥३॥ . १ कठोरनखैः । २ काकवृन्दानि । ३ शब्दायन्ते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62