Book Title: Raghuvilasa Natakoddharah
Author(s): Ramchandra Mahakavi,
Publisher: Bharatiya Vidya Bhavan
View full book text
________________
रघुविलास नाटकोद्धारः - द्वितीयोऽङ्कः ।
रावणः - आगन्तवो यूयम्, अहं पुनराकलित विपिनकुहरो वनेचरदेशीयः । प्रभूतान्तरायं सम्परायं च रावणप्रमुखेभ्यो रक्षोभ्यः सम्भावयामि भवताम् । वधूवागुरानियत्रितमनसः कुत एव योद्धुमलंभूष्णवः ? तदियमार्या वैदेही गहनवनकुहरमलङ्कुरुताम् । इयं च मे सधर्मचारिणी देव्याः संविधमधितिष्ठतु ।
राम: - ( साक्षेपम् )
युद्धश्राद्धभांसकुट्टिमतदीशाणा निशाताश्रयो देवीमप्यनलंभविष्णव इमे त्रातुं पृषत्का यदि । मनन्तः पृथुपुङ्खपातपवनैर्धम्मिल्लमाल्यश्रियं
ः कथमिकी सघनां पौलस्त्यकण्ठाटवीम् ॥ १३ ॥ रावणः - ( सभयमपवार्य वैनतेयं प्रति )
सीता स्वयं ग्रहमहैः सुभगंभविष्णुजिष्णुर्जगत्रयममुष्य वनेचरस्य । प्रत्यर्थिपार्थिवयशः शशलक्ष्मराहुः
बाहुर्धनुर्ननु बहन् किमु नादधीत ? ॥ १४ ॥ वैनतेय: - ( रामं प्रति ) यस्मात् वस्तुर्दिवमभिपतन् गोत्रंहा नेत्रवल्लीं
ग्रीवाभङ्गव्यसनविगमात् तुष्टुवे पृष्ठभाजः । विभ्राणस्य त्रिजगद तिभीमभ्यमित्रीण दीक्षां रक्षोभर्तुर्विमँश समरे तस्य कः सांयुगीनः १ ॥ १५ ॥ विघटितहरिदर्पाम्भोधितीरः स वीरः
क्षणमपि हृदि कर्त्तुं साम्प्रतं साम्प्रतं वः । दशमुख इति चित्रं भर्तृवैरीति रोषं स्मरवपुरिति कामं यः सुरीणां चकार ॥ १६ ॥ किमपरमुच्यते ?
पविकिणगणदृष्यद्वक्षसो रक्षसो वः प्रतिभयमभयानामप्यहं तर्कयामि ।
२ सदृशः ।
६ निशाता
।
७ हिन्युः ।
१ देशान्तरादागताः । ३ समीपम् । ४ श्रद्धालु । ५ श्राण । तीक्ष्णीकृता अश्रिः - भग्रं येषां ते ८ अस्थि निबिडाम् । ९ किं न कुर्वीत ? | १० यस्माद् रावणात् । ११ वसनशीलः । १३ कन्धरावलनकष्टाभावात् । १४ पृष्ठस्थिताः, सर्वत्र नेत्रत्वात् । १५ त्रिजगतोऽतिक्रान्ता भीर्यस्यां सा । ९६ अमित्रं अभि अभ्यमित्रीणः, शत्रु प्रस्थित इत्यर्थः, तस्य दीक्षा व्रतम् । १७ परिभावय ।
१२ इन्द्रः ।
१८ रणे साधुः ।
१९ युक्तम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62