Book Title: Raghuvilasa Natakoddharah
Author(s): Ramchandra Mahakavi, 
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 24
________________ रघुविलास नाटकोद्धारः-द्वितीयोऽङ्कः । लक्ष्मणः - ( सावज्ञम् ) कैलाशं स किल क्षिपाचरपतिमी समुत्क्षिप्तवान् ___ एतेनार्जितमोजिना किमधुना वाहीनवृत्तेन नः ? । काञ्चित् खंङ्गकषोपलोपलिखितां तां ब्रूहि चर्या यया प्रत्यासीदति दुर्विदग्धमनसां चित्तं रघूणामपि ॥८॥ रावणः-( सरोषमात्मगतं कृतकं विहस्य ) कुमार! कतिशस्तुभ्यमय॑र्णजनप्रमोदिनी पुलस्त्यनन्दनस्य चर्याः संकीर्तयामि । मुखानि दश हैहया-ऽमरपती च गुप्तिस्थिती ___ पदं जलधिमूर्द्धनि स्फुटिकपर्वतः कुन्द(कन्दु?)कः । अवाझनसगोचरं चिरमुपादधद् विस्मयं । स्मयग्रहिलदोस्ततेर्जयति जन्म लङ्कापतेः॥९॥ समजनि रणरङ्गे यस्य वक्षोऽभिघातै दलितरदनदण्डः खाकरेणुः करेऽणुः। रजनिचरचमूनामीश्वरः श्रूयमाणः स भवति न भयाय ब्रूहि केषां मृगाक्षि !॥१०॥ द्विपश्चैस्तस्याऽऽस्यैर्द्विगुणदशभिर्लोचन-भुजै र्वपुर्वैरूप्यं तत् किमपि वहते राक्षसपतिः। यदालोक्य स्मेरस्मरपरवशा सा हृदि शंची दिवोभतुर्भूनो परिभवपुरं श्लाघितवती ॥ ११ ॥ [रावणं प्रति रामवाक्यम्-] शक्रेभद्विजदण्डखण्डनकरं वक्षस्थलस्य स्फुरत् ___ कार्कश्यं न खलु प्रपश्चयति नः पौलस्त्यशौर्यश्रियम् । अन्यः कोऽपि स वीरकुञ्जरमनःप्रत्यक्षरूपो न यः शौण्डीर्यस्य न नाम शूरतुलनामर्हन्ति गण्डोपलाः॥१२॥ राम:-तदलमनया निशाचरकथया । कथय तावत् , किं समयोचितं निवेदमितमागतोऽसि । १वलापहारिणा । २ खड्गकषपट्टलिखिताम् । ३ वार्ताम् । ४ रज्यते । ५ कृत्रिमम् । मनाकल्पितशीतालक्षणसमीपलोकानन्दिनीम् । ७ रावणस्य । ८ सहस्रार्जुन-शकौ । ९ कैलाशः। भुगततेः। ११ दशभिर्मुखैः। १२ विंशत्या सुजैर्लोचनैश्च । १३ इन्द्राणी। १४ इन्द्रस्य । उमाण। १६ प्रकाशयति । १७ अस्माकम् । १८ वीरसादृश्यम् । १९ गण्डाः स्थूलपाषाणाः Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62