Book Title: Raghuvilasa Natakoddharah
Author(s): Ramchandra Mahakavi, 
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 22
________________ ॥ अथ द्वितीयोऽङ्कः॥ (नेपथ्ये) सद्यो रक्षत हस्तशीकरकणान् दानाविलान् देज(दिग्ग?)जाः ! पादान् संहर भास्कराऽऽशु भवत च्छत्रं घनाः ! सर्वतः । मार्ग त्याजय निर्विलम्बमरुण! व्याकृष्य वल्गां हयान् देवो देवपतिस्मयव्ययपटुर्नन्वेति लङ्कापतिः॥१॥ वैनतेयः- ( विलोक्य ) कथं प्राप्त एव देवो दशकन्धरः ? । (ततः प्रविशति पुष्पकारूढो रावणः प्रहस्तप्रभृतिकश्च परिवारः । ) [रावणः-] कैलाशोद्धरणोद्भवस्य बलभिद्दपच्छिदाजन्मनः ___ चक्राप्तिप्रतियोधितस्य च परानन्दामृतस्यन्दिनः। अन्यस्यापि महोत्सवस्य तममुं चूडामणिं मन्यते । पौलस्त्यो भविता क्षणे जनकजा यत्रास्पदं चक्षुषाम् ॥ २॥ (प्रहस्तं प्रति ) के प्रदेशमलङ्करोति पुष्पकम् ? । प्रहस्तः-देव ! प्राप्ता एव देण्डकाम् । रावणः-( सहर्षम् ) व्योमन्यत्र निषीद वाहनमहाराज! प्रसीद क्षणं कल्पोत्तालसमीरवीरजयिनी जङ्घालतां संवृणु। प्रामोत्वेष चिरादशेषकरणग्रामश्रमच्छेदिनं सीतावक्रसरोजदर्शनसुधापानोत्सवं रावणः ॥३॥ - [भयत्रस्तां शीतां प्रति रामवाक्यम्-] अभूमिर्भातीनां भुजविजितसीमान्तनृपतिः प्रियेऽसौ सौमित्रिः कुवलयदलश्यामलतनुः । स्फुलिङ्गोग्रच्छायाच्छुरितमसियष्टिं प्रतिवहं स्तडित्तेजोभाजः कलयति समृद्धिं जलमुचः ॥ ४॥ [रावणः - ] ( शीतां दृष्ट्वा सप्रमोदं प्रहस्तं प्रति --) यस्याः पाणिमवाप्य काननचरः सोऽयं स्पृहायाः पदं द्यावा-क्ष्माविजयोन्मदिष्णुमनसो लङ्केश्वरस्याप्यभूत् । १माणः सूर्यसारथिः । २ तुरङ्गमान् । ३ भविष्यति । ४ दण्डकाभिधानारण्यम् । ५ पुष्पक!। ६ युगान्तोसुकवातसुभटजयिनीम्। ७ वेगवत्ताम् । ८ दधाति सादृश्यं मेघस्य । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62