Book Title: Raghuvilasa Natakoddharah
Author(s): Ramchandra Mahakavi,
Publisher: Bharatiya Vidya Bhavan
View full book text
________________
रघुविलास नाटकोद्धारः- द्वितीयोऽङ्कः । धातुः शिल्पकलाकलापनिकषः स्वर्भूर्भुवश्चक्षुषां
__ निर्माणस्य फलं स्मरास्त्रमसमं सेयं विदेहात्मजा ॥५॥ ( पुनः सहर्षम् ) प्रहस्त ! बाह्यनेपथ्यैरकदर्थितो विदेहराजदुहितुरङ्गसन्निवेशः ।
वक्रं चन्द्रविलासि, पङ्कजपरीहासक्षमे लोचने, ___ वर्णः वर्णमपाकरिष्णुरलिनी जिष्णुः कचानां चयः । वक्षोजाविभकुम्भविभ्रमकरौ, गुर्वी नितम्बस्थली,
वाचां मार्दवमुज्वलं युवतिषु स्वाभाविकं मण्डनम् ॥ ६ ॥ (पुनः साभिलाषम् ) विफल एव ममावतारो जगति यदि विदेहजां विमानराजमारोप्य सलीलं नभसि न क्रीडामि । भवतु, वेषान्तरेण सनिधाय निपुणमालोकयामि । (प्रहस्तं प्रति ) वनितावेषो भव । ( पुनः प्रभञ्जनस्य कर्णे एवमेव ।)
(प्रभञ्जनो निष्क्रान्तः । सर्वे भूमाववतारं नाट्यन्ति ।) रामः- ( विलोक्य सविस्मयम् ) कथमयं निर्मानुषप्रचारायां दण्डकायां नागरिकः ? तत्रापि क्षत्रियकुमार इव । स्वागतं महापुरुषाय । (रावणः सर्वेषां प्रणम्य सविनयमुपविशति । प्रहस्तः शीतायाः पादौ संस्पृश्य सलज्जमुपविशति ।)
रामः- महाभाग ! को भवान् ? कथं वाऽस्यां निर्मानुषप्रचारायां दण्डकायाम् ? किमर्थं चास्मान् पवित्रितवानसि ? ।
रावणः-पाताललङ्कापतेश्चन्द्रोदरस्य विराधनामा सूनुरहम् चन्द्रोदरं व्यापाद्य दशकन्धरो भगिनीपतये खराय पाताललङ्कां दत्तवान् । अहं च ततः प्रभृति भ्रष्टराज्यो रावणप्रतिभयेन अत्रत्यतापसपर्णशालासु निलीनस्तिष्ठामि । इयं च मे सधर्मचारिणी । शम्बूकप्रभवं राक्षसोपप्लवं च विज्ञाय युष्माकं समयोचितं साहायकमाधातुमुपागतोऽस्मि ।
लक्ष्मणः-( सरोषम् ) रघवः परेभ्यः साहायकमु(?म)पेक्षन्त इति को वचोव्यामोहः ।
[रावणः-] यदा न साहायकं तदा समयोचितं किमपि विज्ञप्तुमागतोऽस्मि । लक्ष्मणः- विज्ञपितेनाप्यलम् । प्रथय तावद् रावणस्य कथाकन्थाम् । रावण:-(विहस्य)
उंदीची रुन्धाने केलशभुवि विन्ध्यः पुनरपि __प्रवर्द्धताद्रीणामथ च न निषेद्धा तैदपरः। तदेवं देवानां भयमभवदष्टापैदगिरौ
यदुत्क्षिप्ते लङ्कापतिरयमपन्थाः स्तुतिगिराम् ॥७॥ १ दक्षिणाया उत्तरां श्रयति सति। २ अगस्त्ये। ३ तस्मादगस्त्यादन्यो नास्ति । ४ कैलाशे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62