Book Title: Raghuvilasa Natakoddharah
Author(s): Ramchandra Mahakavi,
Publisher: Bharatiya Vidya Bhavan
View full book text
________________
रघुविलास नाटकोद्धारः - प्रथमोऽङ्कः । ख्यातस्तातोऽप्यथ दशरथः किञ्चिदेतद् व्यधत्त
व्यक्तं तस्मादजनि महतां सोऽपि पन्थाः कलङ्की ॥ १७ ॥ कौशल्या-'अजउत्त ! पविस वत्सो, पिच्छदु पियणो पादे । राजा-(साक्षेपम् ) यः पूर्व शतशो ममाहियुगलीमावाल्यतो दृष्टवान् ,
भत्तया तस्य बभूव देवि! विपिने तावन्निवासः फलम् । तां सम्प्रत्यपि वीक्षितुं गुरुतरोत्कण्ठाव्यथाव्याकुलो
वत्सः कां पुनरप्ययं स्पृहयति श्रेयस्तमा सम्पदम् ? ॥ १८ ॥ नाकीर्तिर्गणिता, श्रिता न सरणिर्लोकस्य, वृत्तं सतां
न ध्यातं, गुणशालिनो हृदि धृतं पुत्रस्य न प्रेम च । चण्डालाचरणाश्चिते विरचिते कर्मण्यधर्माविले
वक्र दर्शयितुं न मे समुचितं द्रष्टुं न रामस्य च ॥ १९ ।। अलं श्रुत्वा वाचं सपदि मम वत्सेन कलुषा.
मरण्यानी व्यालव्यसनशतकीणी प्रवसता। न नामादृश्यास्यः परमहमभाष्योऽपि महतां तदास्तामास्तां मे वदनमपटीच्छादितमपि ॥ २० ॥
(नेपथ्ये) रजनीचरेण तमसा तप्तारामस्य देवरिपुजयिनः । ह्रियते विलापतुमला विधुवदनाऽऽशावधूरधुना ॥ २१ ॥
॥ इति प्रथमोऽङ्कः॥
1) आर्यपुत्र ! प्रविशतु वत्सः, पश्यतु पितुः पादान् ।
१ पापमलिने। २ अलं श्रवणेन वाचः। ३ महदरण्यम् । ४ दुष्टश्वापदकष्टयुक्ताम् । ५ यवनिकाम्यवहितमपि । ६ रजनीचरेण तमसा रात्रिसत्कान्धकारेण । तप्तारामस्य-आराम इव भारामः ततारामः, तस्य तप्तारामस्य । हियते आच्छाद्यते । विलापतुमला पक्षिकोलाहलाकुला । विधुरिव वदनं यस्याः सा। भाशावधूः-दिग्वधूः, पूर्वा इत्यर्थः । कस्य ? देवरिपुजयिनः इन्द्रस्य । सूचितद्वितीयपक्षे-राक्षसेन तमोरूपेण । दुःखिता रामचन्द्रस्य । दानवजयिनः । नीयते । आक्रन्दाकुला । विधुरिव वदनं यस्याः । आशाया मनोरथेन उपलक्षिता वधूः शीता इत्यर्थः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62