Book Title: Raghuvilasa Natakoddharah
Author(s): Ramchandra Mahakavi, 
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 18
________________ महाकवि - श्रीरामचन्द्र - गुम्फित - रघुविलास नाटकोद्धारः । >*** ॥ अथ प्रथमोऽङ्कः ॥ सतीं यः केवलां दृष्टिं हृतामत्युग्रकर्मणा । तीर्त्वा मोहाब्धिमानैषीद् वीरायास्मै नमो नमः ॥ १॥ (नान्द्यन्ते ) सूत्रधार : - ( सप्रमोदम् ) सीतां काननतो जहार विहितव्याजः पुरा रावणः तं व्यापाद्य रणेषु तां पुनरथो रामः समानीतवान् । एतस्मै कविसूक्ति मौक्तिकमणिखात्यम्भसे भूर्भुवःस्वर्णमोहन कारणाय सुकधारत्नाय नित्यं नमः ॥ २ ॥ पञ्चप्रबन्धमिषपञ्चमुखानकेन विद्वन्मनः सदसि नृत्यति यस्य कीर्त्तिः । विद्या त्रयीचणमचुम्बितं काव्यतन्द्र कस्तं न वेदें सुकृती किल रामचन्द्रम् ? ॥ ३ ॥ रामात् पूर्वं मधुरा व्यक्तं वाचो वपुष्मतां नाऽऽसन् । कथमन्यथा सुधार्थ ममन्धुरमृतान्धसः सिन्धुम् ॥ ४ ॥ सूत्रधारः - मारिष ! हृदयङ्गममभिदधासि । यतः उच्चरणलब्ध की तैराज्ञारहितस्य लक्षणंयुतस्य । रामस्य वनं शरणं जितपैरकलभस्य शेरभस्य ॥ ५ ॥ १ मुखु १, प्रतिमुखु २, गर्भ ३, विसृष्ट ४, निर्वहणु ५ । भारती १, साविकी २, कौ (कै) शिकी ३, आरभटी ४ । २ विद्यात्रय्या वित्तः विद्या० वित्तः, "तेन वित्ते प्रसिद्धे चञ्चु चणौ” ( सिद्धहेम० ७-११७५ ) । ३ अनास्वादितकवित्वालस्यम् । ४ जानाति । ५ रामचन्द्रमहाकवेः । ६ देवाः । ७ सिन्धुं समुद्रम् । ८ उच्चं च तद् रणं च तत्र लब्धा कीर्त्तिर्येन । ९ दशरथेन रहितस्य, पक्षे आज्ञारहितस्य । १० लक्षणं लक्ष्म लाञ्छनम्, अत एव लक्षणयुतस्य । ११ जिला परेषां कला मनोज्ञा भा कान्त्यादिरूपा येन तस्य; पक्षे कलभः इभः । १२ शरैर्भवतीति शरभः तस्य; पक्षे शरभो जीव विशेषः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62