Book Title: Prameyratna Kosh
Author(s): Chandraprabhsuri
Publisher: Jain Dharm Prasarak Sabha

View full book text
Previous | Next

Page 12
________________ श्रीप्रमेयरत्नकोषः । ज्ञत्वमुपपद्यते, बाध्यमानार्थाभिधायकत्वात् , उन्मत्तकवाक्यवदिति । तथा कपिलस्याप्यागोपालाङ्गनाप्रतीतव्यवहारबाधितैकान्ताक्षणिकप्रकृतिविकारसामान्यरूपसत्कायाविर्भावतिरोभावादिरूपपदार्थप्रतिपादकस्य कथं सर्वज्ञत्वं जाघटीति । ततश्च सामर्थ्याद्धषभवर्धमानादय एव 5 सर्वज्ञाः, युक्तिप्रमाणोपपत्तिव्यवहारघटमानयथावस्थिता भिधायकत्वात् । एवं च प्रमाणबलेन सर्वज्ञसत्तायां साधितायां सर्वज्ञप्रणीतत्वेन चागमस्य प्रामाण्ये सिद्धे पूर्वमुपवर्णितस्वरूपश्चतुर्विधो ऽप्यनुयोगः प्रज्ञागुणभूरिभिः सूरिभिर्विधीयमान आस्तिनुते सिद्धिमिति ॥ सर्वज्ञसिद्धि-10 प्रकरणं समाप्तमिति ॥ २॥ i hal [अर्थ सप्तमी वयं खलु जैनेन्द्राः “एक वस्तु सप्रतिपक्षानेकधर्मरूपाधिकरणं' इत्याचक्ष्महे, प्रतिपर्यायं सप्तभङ्गीसंभवोपपत्तेः। 15 अत्राह । केयं सप्तभङ्गीत्यत्रोच्यते । प्रश्नवशादेकस्मिन्वस्तुन्यविरोधेन विधिप्रतिषेधजल्पना सप्तभङ्गीति । एकस्मिन्वस्तुनि प्रश्नवशादृष्टेनेष्टेन प्रमाणाविरुद्धा विधिप्रतिषेधकल्पना सप्तभङ्गी विज्ञेया। तद्यथा । घटमुदाहरणं कृत्वा ब्रूमहे। स्यादटः१ स्यादघटः २ स्याद्धटश्चाघटश्च ३ स्यादव-20 क्तव्यो घटः४ स्याटश्चावक्तव्यश्च ५ स्यादघटश्चावक्तव्यश्च ६ स्याद्धटश्चाघटश्चावक्तव्यश्चेति ७। अर्पितानर्पितनयसिद्धिर्निरूपयितव्या । तत्र स्वात्मना स्याद्धटः, परात्मना स्थादघटः । को वा घटस्य खात्मा को वा परात्मेति । घटबुद्ध्यभिधानानुप्रवृत्तिलिङ्गः स्वात्मा। यत्र तयोरननुप्रवृत्तिः,25 1 A एकवस्तु 2 A स्याद्धटश्च स्यादघटश्चावक्त

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82