Book Title: Prameyratna Kosh
Author(s): Chandraprabhsuri
Publisher: Jain Dharm Prasarak Sabha
View full book text
________________
श्रीप्रमेयरनकोषः। किं न सर्वामर्थक्रियां करोति । न विद्यते चेत्, तदाद्यक्षणेऽविद्यमानसामर्थ्य तस्यानागतक्षणे संवृत्तमिति कथं नानित्यत्वम् । अथ सहकार्यपेक्षयानागतक्षणेऽर्थक्रियां करोति । नन्वयं सहकारी किं परस्परोपकारित्वेन, एकार्थक्रियाकारित्वेन वा । तत्र न तावत्परस्परोपकारित्वेन, 5 यतस्तस्य नित्यस्य पदार्थस्योपकारो विधीयमानोऽभिन्नो वा विधीयते, भिन्नो वा । तत्र यद्युच्येत “अभिन्नः," तदानीं तस्यात्मस्वरूपवद्विद्यमानत्वात्किं तेन सहकारिणा क्रियते । तथा तत्करणे तदभिन्नस्य नित्यपदार्थस्यापि करणं स्यात् । अथ भिन्नः, तदा भि नोपकारकरणेऽपि न तस्य 10 किंचिदुपकृतं स्यात् । अथ तत्संबन्ध्युपकारः क्रियते; ननु संबन्धः किं तादात्म्यलक्षणः, तदुत्पत्तिलक्षणः, समवायलक्षणो वा । तत्र न तावत्तादात्म्यलक्षणः, भेदपक्षाङ्गीकरणात् । नापि तदुत्पत्तिलक्षणः, आद्य एव क्षणे भाविकार्योत्पादकोपकारप्रसङ्गात् । अथ सहकार्यपेक्षया करोति;15 तत्रापि ब्रूमः । किमिदं सहकारित्वं परस्परोपकारित्वं, एकार्थक्रियाकारित्वं वेत्याद्यावर्तनेनानवस्था । अथ समवायलक्षणः, तन्न, यतोऽसौ समवाय उपकार्योपकारकभावे सत्यभ्युपगम्यते, अनुपकार्योपकारकभावे वा। तत्र यद्याद्यः पक्षः, तदा न तदुत्पत्तिव्यतिरेकेण संभवति । तत्र चोक्त 20 एव दोषः। अथानुपकार्योपकारकभावे सति, तदातिप्रसङ्गः स्यात् । अथैकार्थक्रियाकारित्वलक्षणं सहकारित्वमभ्युपगम्यते । तदप्यनुपपन्नं, यतः सकलसहकार्यवस्थायां योऽस्य स्वभावः स केवलावस्थायां विद्यते वा न वा । विद्यते चेत्, किं न कार्य करोति । तथा तस्मिन्स्वभावे 25 विद्यमाने तत्सहकार्याकर्षणप्रसङ्गः, निगडाकर्षणे निगडबद्धपुरुषाकर्षणवत् । अथ न विद्यते, तीसावुत्पद्यमानः
1A भाव

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82