Book Title: Prameyratna Kosh
Author(s): Chandraprabhsuri
Publisher: Jain Dharm Prasarak Sabha

View full book text
Previous | Next

Page 63
________________ ५६ श्रीप्रमेयरनकोषः। एकस्यैव प्रकाशकप्रकाश्यभावः कथमभ्युपगम्यते। तथाहि। प्रकाशयतीति प्रकाशकः, प्रकाश्यत इति प्रकाश्यः। न चैतथोरैकात्म्य, विरोधव्याघ्राघ्रातत्वात् । अथ द्वितीयः पक्षः, सोऽप्यनुपपन्नः । सतोऽन्यस्य ज्ञानमज्ञानं वा । तत्र 5 यदि तावज्ज्ञानं, तदा ज्ञानं ज्ञानान्तरवेद्यमित्यायातं, एवं च स्वदर्शनव्याघातः स्वसंवेदनानभ्युपगमादिति । अथ "अज्ञानं" इति द्वितीयः पक्षः, सोऽप्यनुपपन्नः, यतस्तदपि वस्तुप्रतिषेधनादित्युच्यते, आहोस्वित् सदृशप्रतिपत्त्या वा । तत्र यदि तावदभावः, तदयुक्तं, अभावस्याकिंचित्कर10त्वात्किंचित्करत्वेऽभावरूपविरोधात् । तस्मानाभावापेक्षं प्रकाशकत्वम् । अथ द्वितीयः पक्षः, तत्रापि किं ज्ञानापेक्षया सदृशं ज्ञानान्तरं गृह्यते, आहोस्विज्ज्ञानवस्तुव्यतिरिक्तं वस्त्वन्तरम् । तत्र यदि तावज्ज्ञानान्तरं, भ्रान्तं, अभ्रान्तं वा । तत्र यदि भ्रान्तं, तदा तदपेक्षं प्रकाशकत्वमयुक्तं, 15 भ्रान्तत्वादेव । अथ द्वितीयः पक्षः, तदा स्वदर्शनव्याघात इति पूर्वमेवावर्तते । अथ ज्ञानव्यतिरिक्तं वस्त्वन्तरस्वरूपमेव गृह्यते, तदा हेतुर्विरुद्धः, विरुद्धसाधनात् । तस्मात्स्वरूपासिद्धो हेतुः, प्रत्यक्षानुमानबाधितत्वात् कालात्ययापदिष्ट त्वात् । तथाहि । प्रत्यक्षेण जडमनुभूयते, अनुमानेन वो20 भयरूपम् । यदप्युक्तं "जडं हि वस्तु व्यतिरिक्तेन प्रकाशेन प्रकाशत इत्यत्राव्यतिरिक्तं ज्ञानं बिभ्राणाः स्तम्भभकुम्भाम्भोरुहादयः पदार्था न प्रतीयन्ते" इति, तदप्यसमीचीनं, यतो भवतैव प्रतीयन्ते, अव्यतिरेकाङ्गीकारात्, अथ मया न प्रतीयन्ते। अतः कारणादिदमुच्यते । तदास्मदभ्युपगमः 25 प्रमाणं, अप्रमाणं वा । यदि प्रमाणं, तदा स्वदर्शनतिरस्कारद्वारेणास्मदर्शनं किं नाभ्युपगतं भवति । अथोकदो 1A प्रकाश्यकभावः 2 B द्वितीयपक्षः 3 B तत्र यदि तावत्तदा तत्रापि ज्ञानान्तरं ज्ञानान्तरं

Loading...

Page Navigation
1 ... 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82