Book Title: Prameyratna Kosh
Author(s): Chandraprabhsuri
Publisher: Jain Dharm Prasarak Sabha

View full book text
Previous | Next

Page 78
________________ श्रीप्रमेयरत्नकोषः। "भवता पचति" इत्यादिरूपं न शक्यते साधयितुम् । तथाहि । “डुपचः पाके” इति धातुः । तत्रानुबन्धयोः प्रयोजनं वक्तव्यम् । भवतु नाम किमपि प्रयोजनं दुर्बलं वादिनं दृष्ट्वाभ्युपगमवादः प्रवर्तते किं चान्यदपि प्रेर्यते यथा पचतेः परस्मैपदानामेकवचनं कस्मिन्नर्थे प्रवर्तते । । अथेत्थमाचक्षीथाः कर्तरि ननु कर्तापि विचारणीयः सामान्यो विशिष्टो वा । तत्र विशिष्टे कर्तरि परस्मैपदं केनापि सूत्रेणाप्रतिपादितम् । सामान्येन च परस्मैपदं दृश्यते, यथा "पचति देवदत्तः । तत्रापि “पचति देवदत्तेन" इति स्यात्, कथं पचति देवदत्तः । यथा कृतपूर्वी कटं देवदत्तः 10 पुत्रीयति माणवकमित्यत्र विशेषकर्मयोतिका द्वितीया प्रव. तते, तथात्रापि विशेषकर्तृद्योतिका तृतीया प्रवर्तमाना दुर्निवारा स्यात् । किं च । क्रियाभावो धातुः । क्रिया च साधनायत्ता, साधनं च प्रत्ययवाच्यम् । ततो न यावत्प्रत्ययः समुत्पन्नो न तावद्धातुत्वं न यावद्धातुत्वं समुत्पन्नं न ताव-15 त्प्रत्ययः समुत्पधत इतीतरेतराश्रयदूषणं समापनीपद्यते किं च । क्रिया प्रत्यक्षेण गृह्यते, अनुमानेन वा । तत्र प्रत्यक्षं पञ्चधा स्पर्शनरसनदर्शनघ्राणश्रोत्रेभ्यः समुत्पन्नम् । तत्र न तावत्स्पर्शनेन क्रिया गृह्यते। कथमिति चेत् , तस्याः स्पर्शरूपापत्तेः, तुल्यादिवत् । न च क्रिया तुलीभवितुम-20 इति । नापि रसनेन्द्रियेणोपादीयते, तस्याः स्निग्धदुग्धादिरुपापत्तेः । न च दुग्धादिरूपा क्रिया क्वापि दृश्यते । नापि घ्राणेन्द्रियेणाङ्गीक्रियते, तस्या गन्धरूपापत्तेमृगमदघनसारादिवत् न च मृगमदादिरूपता युक्ता। न च चक्षुषा गृह्यते, तस्याश्चित्राङ्गनादिरूपापत्तेः; न च चित्राङ्गनादिरू-25 पता समीचीना । न च श्रवणाभ्यामभ्युपगम्यते, तस्या वेणुवीणारवरूपतापत्तेः, न च वेणुवीणादिरवरूपा क्रिया। तदेवं सर्वेष्वपीन्द्रियादिष्वर्थेषु क्रियानुभावाभावान्न प्रत्यक्षेण

Loading...

Page Navigation
1 ... 76 77 78 79 80 81 82