Book Title: Prameyratna Kosh
Author(s): Chandraprabhsuri
Publisher: Jain Dharm Prasarak Sabha

View full book text
Previous | Next

Page 80
________________ श्रीप्रमेयरत्नकोषः। क्षणिकत्वं ज्ञानवादो शून्यवादस्तथा परः। द्वादशायतनानीति तृतीयं बौद्धदर्शनम् ॥४॥ ईश्वरेण कृतं सर्व षट् पदार्थाः शिवोदिताः। चत्वार्येव प्रमाणानि नैयायिकमतं त्वदः ॥५॥ नास्ति जीवो न वा देवो न मोक्षो न पुनर्भवः । न पुण्यपापे सद्भूते भूतमात्रमिदं जगत् ॥ ६॥ अर्थो ज्ञानसमन्वितो मतिमता वैभाषिकेणोच्यते प्रत्यक्षो न हि बाह्यवस्तुविसरः सौत्रान्तिकैराश्रितः । योगाचारमतानुसारिमतिना साकारबुद्धिः परं मन्यन्ते बत मध्यमाः कृतधियः स्वच्छां परां संविदम्॥७॥10 अपौरुषेयं वेदस्य प्रामाण्यं षट्प्रमाणता । सर्वज्ञाभाव इत्येतन्मीमांसकमतं मतम् ॥ ८॥ प्रत्यक्षमनुमानं च शाब्दं चोपमया सह । अर्थापत्तिरभावश्च षट् प्रमाणानि जैमिनेः ॥९॥ ॥ इति श्रीचन्द्रप्रभसूरिभिर्विरचितः प्रमेयरत्नकोशः संपूर्णः॥

Loading...

Page Navigation
1 ... 78 79 80 81 82