Book Title: Prameyratna Kosh
Author(s): Chandraprabhsuri
Publisher: Jain Dharm Prasarak Sabha
View full book text
________________
५४
श्रीप्रमेयरत्नकोषः।
तदानीं व्यतिरिक्तात्, अव्यतिरिक्ताद्वा । यद्यव्यतिरिक्तात्, तदागतमर्थेनाज्ञानात् “ज्ञानं" इत्यायातं सिद्धं नः समीहितम् । अथ व्यतिरिक्तात्, तदा किंतजन्यात् अतजन्याद्वा।
यदि तजन्यात् , तदा ज्ञानरूपात्, अज्ञानरूपाद्वा । यदि 5 ज्ञानरूपात्, तदा ज्ञानाद्वैतमेव । अथाज्ञानरूपात् तदसंग
तं; नाज्ञानाज्ज्ञानं भवितुमर्हति, अन्यथा यदि विलक्षणादपि कारणाद्विलक्षणं कार्य समुत्पद्यते, तदा गोधूमादिभ्योऽपि शाल्यङ्करादयः समुत्पद्येरन्, ततश्च सर्वमसमञ्जसं समाप
नीपद्येत । न चैवम् । अथैवमभिधीयते "विलक्षणादपि 10 गोमयाद्विलक्षणशालूकोत्पत्तिदर्शनात्तदत्राप्येवं भविष्यति"
तदप्ययुक्तं, यतो न तत्र वैलक्षण्यं कारणाभावनिबन्धनत्वेन वक्तुं शक्यं, अन्वयव्यतिरेकाभ्यां केवलादपि गोमयाच्छालूकोत्पत्तिदर्शनात् । न च तथा केवलादर्थाज्ज्ञानं
केनाप्युत्पत्तिमदृश्यत इष्यते वा । अथातजन्यात्, तद15 प्यचारु । अतजन्यादपि ज्ञानादर्थो यदि प्रकाशते, तदानीं
यथा पुरोवर्तिनः पदार्थाः प्रकाशन्ते तथा कालान्तरदेशान्तरवर्तिनोऽपि प्रकाशेरन् , अतजन्यत्वाविशेषात् । अथार्थमन्तरेणार्थकलाकलनविकलमपि ज्ञानं न स्यात् । तदप्ययुक्तं, यतः स्वांशग्रहणे ह्यन्तःसंवेदनं व्याप्रियमाणमनुभू20 यते । तथा बहिरप्यर्थमन्तरेण स्वमदशायां नानाप्रकारं विज्ञानं संजायमानमनुभूयत एषः न चानुभूयमानस्य वस्तुनोऽभावः शक्यते वक्तुं, नीलादिज्ञाने नीलाद्याकारस्य च वेद्यमानत्वात् । तदप्यसंगतं, यतो वेद्यवेदकाकारविकलस्य सकलविकल्पगोचरातीतस्य निर्विकल्पसंवेदनस्यैव 25 संवेद्यमानत्वात्। ग्राह्यग्राहकाकारः पुनरनादिकालालीनवासनाबलेनोत्पन्नत्वात् । तथा चोक्तम् । “सर्वमालंभनं भ्रान्तं” । किं च । बहिःप्रकाशस्य तद्राह्यार्थविचाराक्षम1 B omits ज्ञानरूपात् , अज्ञानरूपाद्वा । यदि ज्ञानरूपात् , तदा

Page Navigation
1 ... 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82