Book Title: Prameyratna Kosh
Author(s): Chandraprabhsuri
Publisher: Jain Dharm Prasarak Sabha

View full book text
Previous | Next

Page 59
________________ ५२ श्रीप्रमेयरलकोषः । तार्थस्य सत्यत्वेन जगददारिद्यप्रसङ्गात् । न चैवं, निर्विषयत्वात्तस्य । अथ “प्रत्यक्षविषय एव स्मरणगोचरः" इति चेत्, तन्न, तयोरेकविषयत्वेनैकत्वापत्तेः । अथ "तदेव वस्तु परोक्षतया स्मार्तविज्ञानस्य विषयः साक्षाद्रूपतया 5 त्वध्यक्षस्य" इति ब्रूषे । इदमप्यनुपपन्न, यतः किमिदं परो क्षत्वं वस्तु वा भवेत्, अवस्तु वा । वस्त्वपि प्रत्यक्षेणेक्षितं, अनीक्षितं वा । ईक्षितं चेत्, तयोरेकविषयत्वापत्तिस्तदक्स्था । अनीक्षितं चेत्, कथमध्यक्षविषय एव स्मरणग्राह्यः। अथावस्तु परोक्षत्वं; एवं तहसत्त्वमेव स्यान्न वैपरीत्यम् । 10 नाप्यनुमानेन, यतोऽनुमानं प्रतिबन्धबलेनोदयति, प्रतिबन्धश्च प्रत्यक्षप्रमाणपरिच्छेद्योऽनुमानसंवित्संवेद्यो वा । अध्यक्षमपि प्रतिबन्धावधारकमेकमनेकं वा । एकमपि क्रमेण योगपद्येन वा । न तावत्क्रमेण पक्षो ज्यायान् , एक ग्रहणानन्तरमेव क्षणक्षयित्वेन क्षीणत्वाद्वितीयग्रहणाभावे 15 कुतः संबन्धावधारकत्वम् । नापि यौगपद्येन, तथा तयोरसंभवात् । अनेकपक्षेऽपि लिङ्गग्राहकस्याध्यक्षस्य लिङ्गिनीतरस्य चेतरत्राप्रवृत्तेः कथं द्विष्ठप्रतिबन्धप्रतीतिः। अनुमानेनापि प्रतिग्रहो नाभ्युपगन्तव्यः, अनवस्थेतरेतराश्रयलक्षणदूषणप्रसक्तेः । नापि बाधकं विज्ञानं ज्ञेयवैपरीत्यप्र20 त्यायकं, यतस्तत्स्वस्यासत्त्वमेव निश्चिनोति नान्यदेशादिसंबन्धिनाम् । नापि ग्रहणक्रियाकरणात्प्रकाशको बाधोऽप्यसौ ग्रहणक्रियां चिद्रूपां वा विधत्ते, अचिद्रूपां वेति विकल्प्यते; चिद्रूपामप्यव्यतिरिक्तां, व्यतिरिक्तां वा । अव्यतिरिक्तपक्षेऽर्थस्य चिद्रूपत्वापत्त्या जडताहानिः । 25 व्यतिरेकपक्षे तु गृहीतिक्रिया परां गृहीतिक्रियामारचयन्ती पदार्थस्य प्रकाशिका तामन्तरेण वा । प्रथमपक्षेऽनवस्था स्फुटैव । द्वितीये तु बोधस्यापि तथात्वापत्तिरिति । 1 B omits तत् 2 B inserts तां 3 B अव्यतिरिक्त पक्षे

Loading...

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82