Book Title: Prameyratna Kosh
Author(s): Chandraprabhsuri
Publisher: Jain Dharm Prasarak Sabha

View full book text
Previous | Next

Page 60
________________ श्रीप्रमेयरत्नकोषः। अचिद्रूपापि भिन्ना वा, अभिन्ना वा । अभेदे जडार्थकर्तृत्वं विज्ञानस्यासज्यते; न चैतद्युक्तं, तत्र तस्यानधिकारात् । भेदे तु तस्याजडत्वादपरया ग्रहणक्रियया असौ प्रकाशनीया साप्यपरया इत्यनवस्था तदवस्थैव । नापि तदाधेयत्वात्प्रकाशकत्वं, आधाराधेयभावस्यैव विचारभारगौरवा- 5 सहिष्णुत्वात् । तथाहि । आधारः किं स्थितिकरणात्, अविनाशकरणाद्वेत्यादि । नापि तदाकारत्वात्, यतस्तदाकारं विज्ञानमेवानुभूयते नार्थः। अतस्तदाकारत्वबोधस्यैव व्यवस्थापकम् । अर्थव्यवस्थापकत्वे वा किं क्रमेणार्थ व्यवस्थापयति, योगपद्येन वा । न तावत्क्रमपक्षः क्षणक्षयित्वेन 10 संभवति । नापि यौगपद्यं, द्वयोरननुभूयमानत्वात् । नापि तजन्यत्वात्प्रकाशको बोधः समसमयभाविनोर्जन्यजनकभावासंभवात् । भिन्नकालभाव्यपि बोधोऽर्थात्माग्वा भवेत्पश्चाद्वा । न तावत्याग्भावी बोधो बोधकः, तदा बोधस्यैव भावात् । नापि पश्चात्, तदार्थस्य विनष्टत्वात्कस्यासौ 15 प्रकाशको भवेत् । इत्थं समानकालभाविनो भिन्नकालस्य वा व्यतिरिक्तबोधस्य प्रकाशकस्यानुपपद्यमानत्वात् “यत्नकाशते तत्सुखादिवद्विज्ञानमेव" इति स्थितम् ॥ ज्ञानवादोऽसौ ॥ १४ ॥ [XV. 1 20 [अथ ज्ञानक्षणिकत्ववादः] अथवा यत्प्रकाशते तज्ज्ञानं, जडस्य प्रकाशायोगात् । न . चायमसिद्धो हेतुः, यतस्तदा हि स्यादस्य हेतोरसिद्धत्वं यद्यप्रकाशरूपमपि ज्ञानं स्याद्यावन्न खलु केनापि वादिना ज्ञानस्याप्रकाशरूपमिष्टं सर्ववादिनां ज्ञानस्य प्रकाशरूपत्वेनाभ्युप-25 गमात् । नाप्यनैकान्तिकः, विपक्षे प्रकाशस्याभावात् ।नापि विरुद्धः,विरुद्धसाधनाभावादेव। तथाहि । विरुद्धो जडोऽर्थः। स च स्वयं प्रकाशते, परतो वा न तावत्स्वयं, जडत्वादेव । अथ परतः तदानीं किं ज्ञानात्, अज्ञानाद्वा।यदि ज्ञानात्,

Loading...

Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82