Book Title: Prameyratna Kosh
Author(s): Chandraprabhsuri
Publisher: Jain Dharm Prasarak Sabha

View full book text
Previous | Next

Page 66
________________ श्रीप्रमेयरत्नकोषः । " ष्यतः । तदप्ययुक्तं, यतः सिद्धे कार्यकारणव्याप्यव्यापकभावे भवतो न चात्यन्तयोग्यस्य हेत्वन्तराभावस्य कार्यकारणभावो व्याप्यव्यापकभावो वा समस्ति भवतो वा कारणव्यापकानुपलब्धी तथापि देशनैयत्येन हेत्वन्तराभाव इति । न च तथाभ्युपगम्यते । अथ विरुद्धोपलब्धिः; साप्यघट- 5 मानैव, यतो भवतो जायमानस्य प्रबन्धेनान्यसद्भावेऽभावाद्विरोधगतिः । न चात्यन्तासंभविनः प्रकारोऽयं भवति, अभ्युपगमे वा देशनैयत्येनैव स्यादिति । तत्र च प्रागुक्तो दोष इति कथं त्रिविधैवेत्यवधारणं घटां प्राश्चति ॥ १६ ॥ [ XVII. ] [ अथ वाच्यवाचकसंबन्धः ] 1 ર यद्येनाप्रतिबद्धस्वभावं न तत्तस्य गमकं यथा रजोराज्यादिः पदार्थो धूमध्वजस्य । अप्रतिबद्धस्वभावश्च शब्दोऽर्थेन । न चायमसिद्धो हेतुः । तथाहि । असौ संबन्धो भवन् तादात्म्यलक्षणः, तदुत्पत्तिलक्षणो वा, आधाराधे - 15 यलक्षणः, समवायलक्षणः, वाच्यवाचकलक्षणो वेति विकल्पाः । तत्र न तावत्तादात्म्यलक्षणः, यतस्तादात्म्ये हि शब्दार्थयोः शब्दो वा स्यादर्थो वा न द्वयम् । तथौ शब्दार्थयोस्तादात्म्ये क्षुरिकामोदकादिशब्दोच्चारणे मुखपाटनपूरणप्रसङ्गः । न च दृश्यते । नापि तदुत्पत्तिलक्षणः, 20 यतः किं शब्दादर्थोत्पत्तिः, अर्थाद्वा शब्दोत्पत्तिः । यदि शब्दादर्थोत्पत्तिः, तदा विश्वमदरिद्रं स्यात्, हिरण्यशब्दसमुच्चारणादेव तदुत्पत्तेः । नाप्यर्थाच्छन्दोत्पत्तिः, ताल्वादिकारणकलापादेव तदुत्पत्तिदर्शनात् । नाप्याधाराधेयलक्षणः, तस्याप्यघटनात्, यतः स आधारः स्थितिकर - 25 जात्, अविनाशकरणाद्वा । यदि स्थितिकरणात्, तदा 1 A °त्यन्तयोपगतस्य 2 B C omit 3 B C omit 1 ५९ 10

Loading...

Page Navigation
1 ... 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82