Book Title: Prameyratna Kosh
Author(s): Chandraprabhsuri
Publisher: Jain Dharm Prasarak Sabha
View full book text
________________
श्रीप्रमेयरत्नकोषः। . . अयमेवेति यो ह्येष भावे भवति निर्णयः ।
नैष वस्त्वन्तराभावसंवित्त्यनुगमादृते॥ ___ अथोच्यते । हेत्वन्तराभावः प्रत्यक्षेणैवेक्ष्यते । तदयुक्तं,
यतः प्रत्यक्षं विविक्तक्षणक्षयिपरमाणुलक्षणस्वलक्षणविषय5 मेवाभिधीयते, न च हेत्वन्तराभावस्तथाभूतोऽभिवर्ण्यते ।
तथाहि । यद्यसदलक्षणो वस्त्वात्माभावः संपरिकल्पते,तदा तस्येन्द्रियसंनिकर्षाभावात्प्रत्यक्षस्य तद्विषयविरोधितेति । यदुक्तम् ।
न तावदिन्द्रियेणैषा नास्तीत्युत्पद्यते मतिः । 10 भावांशेनैव संयोगो योग्यत्वादिन्द्रियस्य हि ॥
अथाभिधीयते । सर्वशक्तिविरहलक्षणोऽभावो ननु सोऽपि वस्तुविषयिणः प्रत्यक्षस्य विषय इत्यादातुं न शक्य
ते । तथा “अनुमानं तद्राहकं भविष्यति" इत्यपि न • लपनीयं, यतस्त्रिविधलिङ्गसमाश्रयमेव वर्ण्यते तदिति तत्र I5 स्वभावकार्यहेतू विधिसाधकाविति न तदाश्रयं सहेत्वन्त
राभावं कर्तु पारयति । अथोच्यते । यद्यपि कार्यस्वभावहेतुसमुत्थं हेत्वन्तराभावं कर्तुं न शक्नोति, तथाप्यनुपलब्धिसमुत्थं हेत्वन्तराभावसाधनाय भविष्यति । तदप्यसमीचीनं, यतः सापि चतुर्धा स्थूलभेदापेक्षयां समुपवर्ण्यते, 20 स्वभावानुपलब्धिः, कारणानुपलब्धिः, व्यापकानुपलब्धिः, विरुद्धविधिश्चेति । तत्र स्वभावानुपलब्धिर्हेत्वन्तराभावनिराकरणाय तदैवप्रभवति यदैकज्ञानसंसर्गिणस्तुल्ययोग्यतारूपस्य नोपलब्धिरूपा भवति न च हेत्वन्तरमत्यन्तमसत्तथोपगतं तथेति । भवतु वा स्वभावानुपलब्धिर्हेत्वन्तराभा25 वसाधनाय, परं देशनैयत्येन सा स्यादित्यतोऽस्युपगम
क्षतिः । अथ यद्यपि स्वभावानुपलब्धिर्हेत्वन्तराभावसाधनाय न प्रवर्तते, तथापि कारणव्यापकानुपलब्धी भवि1 A स्थूलापेक्षया

Page Navigation
1 ... 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82