Book Title: Prameyratna Kosh
Author(s): Chandraprabhsuri
Publisher: Jain Dharm Prasarak Sabha
View full book text
________________
श्रीप्रमेयरत्नकोषः। :
६७' नामेव पटजन्मनि हेतुकत्वं न कपालादीनां, तथा शाबलेयादीनामेव गौौरिति ज्ञानोत्पादनसामर्थ्य भविष्यति कयाचिद्यक्त्या न कर्कादीनाम् । यथा यथा गुडूच्यादेरेवं ज्वरादिशमने सामर्थ्य प्रतीयते न दध्यादेवस्तुरूपतयाविशेषेऽपि, तथा प्रकृतेऽपि भविष्यतीति न पर्यनुयोगो युक्तः। किं 5 च । सामान्यं मूर्तमभ्युपगम्यते, अमूर्त वा । यद्यमूर्त, न सामान्यं स्यात्, रूपवत् । अथ मूर्त; तथापि न सामान्यं, घटवत् । तथा किं सांशमभ्युपगम्यते, निरंशं वा । यद्यनंशं, न तर्हि सामान्यं, अनंशत्वात् , परमाणुवत् । अथ सांशं; तथापि न सामान्यं, घटवत् । किं च । पिण्डेभ्यो 10 भिन्नं वा स्यात् , अभिन्नं वा, भिन्नाभिन्नं वा । न तावद्भिनाभिन्नं, विरोधात् । अथ “केनाप्यंशेन भिन्नं केनाप्यभिन्नं" इति तदपि न युक्तं, सामान्यस्य निरंशत्वात् । नाप्यभिन्नं, पिण्डानां नानात्वे तस्यापि नानात्वापत्तेः, तदेकत्वे वा तेषामेकरूपताप्रसक्तेः । नापि भिन्नं, असा-15 मान्यरूपताप्रसङ्गात् , दण्डादिवत् । अथानेकसंबन्धात्सामान्यमभिधीयते; तदपि न युक्तं, संख्याकार्यद्रव्यादेरपि सामान्यरूपताप्रसङ्गात् । अथानुस्यूताकारतया प्रतीयमानं सामान्यं, नेतरदित्यभिधीयते; तदप्यसंगतं, यतः किमात्मरूपानुस्यूतं, पररूपानुस्यूतं वा । न ताव-20 दात्मरूपानुस्यूतं, आत्मन्यनुगमाभावात् । अथ पररूपानुस्यूतं; तदपि न चारु, यतः पररूपानुस्यूतता किं तादात्म्यं, तत्समवायो वा । तद्यदि तादात्म्यं, तदा पूर्वो दोषः । अथ तत्समवायः; सोऽपि न संगतः, समवायस्याभावात् । भवतु वा सर्वव्यापि गोत्वं; यथा गोपिण्डेषु 25 संबन्धयति, तथा कर्कादिपिण्डेषु किं न संबन्धयति विशे
1 A गूद्रव्यादेरेव; B गूइच्यादेरेव 2 A omits पररूपानुस्यूतं वा 3 A पूर्वदोषः

Page Navigation
1 ... 72 73 74 75 76 77 78 79 80 81 82