Book Title: Prameyratna Kosh
Author(s): Chandraprabhsuri
Publisher: Jain Dharm Prasarak Sabha
View full book text
________________
श्रीप्रमेयरत्नकोषः। तयोपप्लुतत्वात् । तथाहि । अर्थोऽवयविरूपः, अवयवरूपो वा भवेत् , गत्यन्तराभावात् । न तावदेकदेशवदवयविरूपो विचारं क्षमते, अवयवविरहेऽवयवित्वायोगात्, तेषु तद्वत्तिविकल्पानुपपत्तेः । तथाहि । अवयवेष्ववयवी वर्तमानः किमेकदेशेन वर्तते, सामस्त्येन वा । न तावदेकदे- 5 शेन, तस्य स्वयं निरवयवित्वादेव वृत्तिनिमित्तमंशान्तरकल्पनेंऽशान्तरवृत्तावप्यंशान्तरप्रसङ्गः, तथा चानवस्था । न च सामस्त्येन प्रत्यवयवपरिसमाप्तरूपतयावस्थितावयवित्वप्रसङ्गाझेदपक्षे । दोषोऽयमभेदे नास्तीति चेत्, तन्न । तत्राप्यवयवमात्रमवयविमानं च स्यादितरेतराव्यतिरिक्तत्वात्,10 इतरेतरस्वरूपवत् । किं च । समस्तावयवव्यापिनोऽवयविनोऽभ्युपगमे पटादेरेकदेशे रागारागकम्पाकम्पादीनि दुर्निवाराणि स्युः, एकस्य रागादिविरुद्धधर्माध्यासायोगात्। नाप्यवयवरूपोऽर्थो विचारगोचरचारी करचरणशिरोवादिनामवयवानां स्वावयवापेक्षयावयविरूपतया तद्रूपेणैवा-15 पास्तत्वात् । अथ परमाणूनां निरंशतयावयवत्वमुपपद्यतेति चेत्, तदप्ययुक्तं, तेषामपि दिक्षट्कसंबन्धेन षडंशतापत्तेः, अन्यथावस्थानाभावात् । ततश्चार्थविरहात्तदुन्मुखोद्राह्याकारोऽलीकः, तदलीकतायां ग्राहकाकारोऽप्यलीक एव; ग्राह्याभावे ग्राहकायोगात्तदपेक्षयैव तदुपस्थितिः, इत्थं 20 च ग्राह्यग्राहकाकाराभावे ज्ञानाद्वैतमेवावशिष्यते, तस्य सर्वत्राव्यभिचरितरूपत्वात् । तस्मात्तदेव पारमार्थिकमिति स्थितम् ॥ यत्तावदुक्तं “यत्प्रकाशते तज्ज्ञानं" इति, तत्तावद्विचारयामः । किं स्वयमेव परनिरपेक्षमात्मानं प्रकाशयति, सापेक्षं वा । तत्र यद्याद्यः पक्षः कक्षीकारपूर्वीकारेण 25 प्रतिपद्यते, तदयुक्त, स्वात्मनि क्रियाविरोधात् । न ह्यत्यन्तकुशाग्रीयबुद्धिमानपि तेनैवाङ्गुल्यग्रेण तदेवाङ्गुल्यग्रं स्पृशति, स्मृशतां वा दुर्बलं वादिनं दृष्ट्वाभ्युपगम्यापि महे । 1 A omits एकदेशवत् 2 A पदादे' 3 A °तापातः

Page Navigation
1 ... 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82