Book Title: Prameyratna Kosh
Author(s): Chandraprabhsuri
Publisher: Jain Dharm Prasarak Sabha

View full book text
Previous | Next

Page 57
________________ श्रीप्रमेयरत्नकोषः। संवित्तिनित्यैवेति किं तस्याः स्यादुत्पाद्यं द्वितीयोपलम्भस्याभावाच्च न तद्विषयज्ञानोत्पत्तिरभिव्यक्तिर्युक्ता, आसर्गप्रलयादेका बुद्धिर्भवत्सिद्धान्ते प्रतिपादनात् । अथेदमभिधीयते "न बुद्धिस्तद्भावा तद्विषया संवित्तिरपि तर्हि 5 मनःस्वभावा"; तदप्यसाधीयः, अर्थान्तरत्वात् । नापि तद्विषयोपलम्भावरणक्षयलक्षणाभिव्यक्तिः, पूर्वोत्तकारणद्वयादेव । तथाहि । यदिदमुपलम्भावरणं तस्याक्षयत्वान्न क्षयः । अथ तिरोभावलक्षणः क्षयः सोऽप्ययुक्तः, पूर्वरूपस्याभावे तिरोभावादन्योपलम्भाभावाच्च नोपेलम्भावरण10 मस्ति, न चासतो युक्तमावरणं, वस्तुविषयत्वात्तस्य । तस्मान्न क्षयो युक्तः। किं च । आवरणमपि नित्यस्वरूपाणां न संभवत्येव । तत्कथं क्षयः । नाप्यावरणं केनचित्क्रियते, नित्यस्वभावत्वात्तस्य । किं च । सत्कार्यवादपक्षे बन्धमो क्षाद्यभावप्रसङ्गोलोकव्यवहारोच्छेदप्रसङ्गश्चानिवार्यः स्यात्। 15 तथाहि । प्रधानपुरुषयोः कैवल्योपलम्भे मोक्षो भवद्भिरिष्यते तत्त्वज्ञानं च सर्वदावस्थितमिति मुक्ताः स्युः सर्वे देहिन इति न बन्धः । मिथ्याज्ञानस्यावस्थितत्वेन सर्वदा सर्वेषां बद्धत्वात्कुतो मोक्षः। तथाहि । लोकोऽपि हिताहितार्थप्राप्तये प्रवर्तमानो हितार्थसर्वदावस्थितेः कथं तत्र स 20 स्पृहः, तदभावे कथं व्यवहियत इति सांख्याभिमतः सत्का र्यवादः सिद्धिपदवीं समश्नुते सांख्यसंमतसत्कार्यवादभङ्गः ॥१३॥ [ XIV ] [अथ ज्ञानवादः] 25 यत्प्रकाशते तज्ज्ञानं, जडस्य प्रकाशायोगात् । जडं हि वस्त्वव्यतिरिक्तेन प्रकाशते, व्यतिरिक्तेन वा । न तावदव्यतिरिक्तन, यतो नाव्यतिरिक्तं प्रकाशं बिभ्राणाः स्तम्भ1 A °द्धान्त° 2 B °पलम्भाभावत्वेन 3 A नित्यं खभाव'

Loading...

Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82