Book Title: Prameyratna Kosh
Author(s): Chandraprabhsuri
Publisher: Jain Dharm Prasarak Sabha
View full book text
________________
४८
श्रीप्रमेयरत्नकोषः।
[ XIII.] [अथ सत्कार्यवादभङ्गः] इह हि यदभिधीयते सांख्यैः "सदेव समुत्पद्यते कार्य", तदयुक्तमेव सत्कार्यस्योत्पत्तेरसंभवात् । तथाहि । यत्सत्तन्न 5 केनापि क्रियते, यथा भवन्मतेनैव पुरुषः। सच्चाभ्युपगम्यते कार्यम् । न चैतदसिद्धं, यतः सर्वापि साधनप्रवृत्तिः स्वविषये संशयविपर्यासनिवृत्तिप्रधानाभ्युपगम्यते निश्चयोत्पादिका च । न च सत्कार्यवादपक्षे द्वयमप्युपलक्षयामः ।
तथाहि । संशयविपर्यासौ बुद्धिमनःस्वभावौ कदाचिच्चैत10 न्यात्मकौ । ततश्च तेषां नित्यत्वेन संशयविपर्यासयोर्नित्यत्वात्सर्वदावस्थितत्वेन केनापि निवृत्तिः कर्तुं न शक्यते नापि निश्चयोत्पत्तिः, सर्वदावस्थितत्वात्तस्य । ततश्च यदुच्यते "हेतुपञ्चकमसत्कार्यनिषेधद्वारेण सत्कार्यप्रसाधकं,
तत्सर्वमयुक्तप्रायं, प्रत्युत स्ववचनविरोध एव केवलम् । 15 तथाहि । निश्चयोत्पत्तये साधनप्रयोगमभिधातुकामेन निश्च
यस्यासत उत्पत्तिः कक्षीकृता सत्कार्यमिति प्रतिज्ञायाश्च दत्तो जलाञ्जलिरिति कथं न स्वोक्तवचनव्याघातः । अथेदमभिधीयते। मा भूत्साधनप्रयोगवैफल्यापत्तिरिति निश्चयो
भूत एव साधनादुत्पद्यत इति कक्षीक्रियत एव; तर्हि 20 "असदकरणात्" इति हेतुपञ्चकस्यानैकान्तिकता स्ववा
चाभ्युपगता । तद्वत्सर्वेषामपि कार्याणामसतामुत्पत्तिः। ततश्च यथासतोऽपि कारणं निश्चयस्य, तथा तन्निष्पत्तये विशिष्टसाधनपरिग्रहे सर्वसाधनाभासाद्यसंभवा विद्यमान
शक्तहेतुः शक्यकरणकारणभावाश्च संभवन्ति, तथासत्का25 र्येऽपि संभवादिति । अथोच्यते । यद्यपि साधनप्रयोगोत्पत्तेः प्रागपि निश्चयसद्भावः, तथापि न साधनानां वैय
र्थ्य, यतोऽसौ साधनाभिव्यक्तिकारणेभ्यो व्यक्तो भवतीति __1 C omits from तथा down to संभवन्ति of 1. 24 2 A omits तत्
-

Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82