Book Title: Prameyratna Kosh
Author(s): Chandraprabhsuri
Publisher: Jain Dharm Prasarak Sabha
View full book text
________________
४७
श्रीप्रमेयरत्नकोषः । बुद्धिः, संयोगविभागाकारणत्वात् । यद्यत्संयोगविभागाकारणं, तत्तत्कर्म न भवति, यथा रूपादि। तथा च बुद्धिः। तस्मान्न कर्म । तस्मात्सिद्धः प्रतिषिध्यमानद्रव्यकर्मभावो बुद्धेः । न च सत्तासंबन्धित्वमसिद्धं बुद्धेः, तत्र सदितिप्रत्ययोत्पादात् । न च सत्ताभिन्ना न सिद्धा तद्भेदप्रतिपा- 5 दकप्रमाणसद्भावात् । तथाहि । यस्मिन्भिद्यमानेऽपि यन्न भिद्यते तत्ततोऽर्थान्तरं, यथा भिद्यमाने वस्त्रादावभिद्यमानो देहः । भिद्यमाने च बुद्ध्यादौ न भिद्यते सत्ता, द्रव्यादौ सर्वत्र सदितिप्रत्ययाभिधानदर्शनात्, अन्यथा तदयोगात् । सा च बुद्धिसंबद्धा, ततस्तत्र विशिष्टप्रत्यय-10 प्रतीतेः । तथाहि । यतो यत्र विशिष्टप्रत्ययः स तत्र संबद्धः, यथा दण्डो देवदत्तेन । भवति च बुद्ध्यादौ सत्ता; इतस्तप्रत्ययः, ततस्तया संबद्धा भवति । “प्रतिषिध्यमानद्रव्यकर्मत्वात्" इत्युच्यमाने सामान्यादिना व्यभिचारः, तन्निवृत्त्यर्थ “सत्तासंबन्धित्वात्" इति वचनम् । “सत्तासंब-15 न्धित्वात्" इत्युच्यमाने द्रव्यकर्माभ्यामनेकान्तः, तन्निवृत्यर्थ “प्रतिषिध्यमानद्रव्यकर्मभावे सति" इति विशेषणम्। तदेवं भवति । अतोऽनुमानाद्बुद्धेर्गुणत्वसिद्धिः। अस्मदाधुपलभ्यमानत्वं बुद्धेस्तदेकार्थसमवेतानन्तरज्ञानप्रत्यक्षत्वानासिद्धम् । नित्यत्वं चात्मनः “अकार्यत्वात् , आकाशवत्" 20 इत्यनुमानप्रसिद्धम् । अतो "नित्यत्वे सति", अस्मदाधुपलभ्यमानगुणाधिष्ठानापेक्षस्यावृत्तेः ॥ नापि विरुद्धः, विभुन्याकाशेऽस्य वृत्त्युपलम्भात् ॥ नापि बाधितविषयः, प्रत्यक्षागमयोरात्मनि विभुत्वाप्रदर्शकयोरसंभवात् ॥ नापि प्रकरणसमः, प्रकरणचिन्ताप्रवर्तकस्य हेत्वन्तरस्याभावात् । 25 भवति सकलदोषरहितादतो हेतोः सर्वगतात्मसिद्धिः ॥ ॥ सर्वगतात्मवादः ॥ १२ ॥
1 A सत्तासंबन्धित्वमसंबद्धं 2A प्रमाणभावात् 3 BCइत्यनुमानं प्रसिद्धं

Page Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82