Book Title: Prameyratna Kosh
Author(s): Chandraprabhsuri
Publisher: Jain Dharm Prasarak Sabha
View full book text
________________
श्रीप्रमेयरकोषः ।
मानेनापि साकारता निश्चीयत इति न योगिज्ञानं साकारतानिश्चये ज्ञानान्तरस्य साकारतां निश्चिनोति । नापि वेदनेन ज्ञानान्तरस्य साकारतां निश्चीयते, स्वात्मनि क्रियाविरोधात् । न हि तेनैवाङ्गुल्यग्रेण तदेवाङ्गुल्यग्रं स्पृश्यते । नापि चक्षुरादिज्ञानेन, यतस्तत्र विकल्पद्वयं कृतं " खज्ञा- 5 नस्य साकारतां निश्चिनोति, ज्ञानान्तरस्य वा "" । तत्र न तावत्स्वज्ञानस्य साकारतां निश्चिनोति तद्विषयादुत्पन्नं विषयस्वरूपमेवावलम्बते न च स्वज्ञानमेवावलम्बते, तेन सह तस्य संबन्धाभावात् । नापि ज्ञानान्तरस्य साकारतां निश्चिनोति, यतश्चक्षुरादिज्ञानं ज्ञानान्तरग्राहकं सत् साका- 10 रतां निश्चिनोति, अग्राहकं वा । तत्र यदि ग्राहकं, तदयुक्तम् । चक्षुरादिज्ञानं हि रूपादुत्पन्नं रूपादिकमेवावलम्बते, न ज्ञानान्तरम् । ततश्च कथं साकारतां निश्चिनोति । अथामहं तदप्ययुक्तम् । यद्यत्स्वरूपं न जानाति तत्कथं तस्य साकारतां निश्चिनोति । एतेनैव " स्वजातीयस्य, 15 विजातीयस्य, एकसंततौ भिन्नसंतती वा " इति विकल्पचतुष्टयं निराकृतं द्रष्टव्यम् । चक्षुरादिज्ञानमपि स्वप्रामाण्यनिश्चये, अन्यथा वा । तत्र यदि " स्वप्रामाण्यनिश्चये” इति पक्षः, तत्र " प्रामाण्यनिश्चयः स्वतः परतो वा" इति विकल्पद्वयं कृतम् । तत्र यदि स्वतः, तदयुक्तं यतस्तस्यैव 20 निश्चये निश्चेयत्वं निश्चायकत्वं च न संभवति, कर्तृकर्मणोरत्यन्तभिन्नत्वात् । अथ परतः, तदा वक्तव्यं “ कारणगुणज्ञानाद्वाधाभावाद्वा । तत्र यदि कारणगुणज्ञानात्, तदा तत्रापि वक्तव्यं “ किं कारणगुणज्ञानं स्वकारणगुणज्ञानापेक्षं सत् प्रमाणकारणगुणनिश्चायकं भवति, अनपेक्षं 25 वा " । तत्र यदि सापेक्षं, तदानवस्था । अथानपेक्षं; तर्हि कारणगुणज्ञानापेक्षया किं प्रयोजनम् । अथ बाधकाभावात्, तदा सो बाधाभावो ज्ञातः सन् प्रामाण्यनिश्चायको
,"
४
३७

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82