Book Title: Prameyratna Kosh
Author(s): Chandraprabhsuri
Publisher: Jain Dharm Prasarak Sabha

View full book text
Previous | Next

Page 46
________________ श्रीप्रमेयरकोषः । धस्योभयविधिनान्तरीयकत्वात् । तन्न प्रत्यक्षेण संबन्धनिश्चयः । अथानुमानेन; तत्र च विकल्पद्वयं कृतं "किं तेनैव, अपरेण वा " इति । तत्र यदि तेनैव तदेतरेतराश्रयलक्षणो दोषः । अथान्येन, तदानवस्थालक्षणो दोषः । संबन्धोऽपि तादात्म्यलक्षणः, तदुत्पत्तिलक्षणो वेति । तत्र यदि तादा - 5 त्म्यलक्षणः, तदासौ न गम्यगमकभावनिबन्धनं; गम्यगमकभावो भेदे सति भवति, तादात्म्ये च सति साधनप्रतीतिकाल एव साध्यस्यापि प्रतिपन्नत्वात् । अथ न प्रतीयते तर्हि यस्मिन्प्रतीयमाने यन्न प्रतीयते तत्ततो व्यतिरिमेव, यथा घटखरूपे प्रतीयमाने पटस्वरूपमप्रतीयमानं 10 ततो व्यतिरिक्तमिति । न प्रतीयते च साधनप्रतीतिकाले साध्यं ततश्च न तयोस्तादात्म्यम् । तदुत्पत्तिलक्षणोऽपि संबन्धो न गम्यगमकभावनिबन्धनम् । तथाहि । कार्यस्वाविशेषे यथा धूमो वह्नेर्गमकः, तथा वक्तृत्वमपि किं नासर्वज्ञस्य निश्चायकं भवति । नापि समवायलक्षणः संब- 15 न्धः, प्रामाण्यसमवेतलिङ्गाभावात् । नापि संयोगलक्षणः संबन्धः, यतस्तत्र विकल्पद्वयं कृतं "संयोगोऽपि संयुक्तयोः, असंयुक्तयोर्वा" । तत्र यदि संयुक्तयोः, तदा संयोगः सामान्याश्रयो वा विशेषाश्रयो वा । यदि सामान्याश्रयः, तदा धूमवद्वह्निरपि धूमस्य गमको भवेत्, विशेषाभावात् 120 अथ विशेषाश्रयः, तदा धूमस्तार्णादिभेदानां गमकः स्यात् । तन्न संयोगवशाद्गम्यगमकभावः । अथासंयुक्तयोः तत्र विकल्पद्वयं कृतं “योग्ययोः, अयोग्ययोर्वा" इति । तत्र न तावद्योग्ययोः । तथाहि । किं पूर्व संयोग उत्तरकालं योग्यता, अथ पूर्व योग्यतोत्तरकालसंयोगः । तत्र यदि 25 पूर्व संयोगः, तदोत्तरकालभाविन्या योग्यतया किं प्रयो-जनं, संयोगस्य वृत्तत्वात् । अथ पूर्वं योग्यतोत्तरकालं संयोगः, तदासौ योग्यता संयोगाभावे कथं निश्चीयते, ३९

Loading...

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82