Book Title: Prameyratna Kosh
Author(s): Chandraprabhsuri
Publisher: Jain Dharm Prasarak Sabha

View full book text
Previous | Next

Page 50
________________ श्रीप्रमेयरत्न कोषः । तेनैव सामान्येन क्रियते, सामान्यान्तरेण वा । तत्र यदि तेनैव, तदेतरेतराश्रयदोषः । तथाहि । तत्समानत्वे सति सामान्य प्रवर्तते, सामान्य प्रवृत्ते समानत्वं जायत इती- . तरेतराश्रयत्वम् । अथ सामान्यान्तरेण, तीनवस्था । तथाहि । अपरेण सामान्येन समानत्वं कर्तव्यं, तदपि 5 सामान्यं समानासु व्यक्तिषु वर्तते, तासामपि समानत्वमपरेण सामान्येन विधेयमित्यनवस्था दुर्दान्तकुट्टिनीव पृष्ठतो धावमाना वर्षसहस्रेणापि नावस्थानमङ्गीकरोतीति यथा यथा विशुद्धबुद्धिभिबौद्धैर्विचार्यते सामान्यं, तथा तथा जीर्णकुटीरकमिव विशीर्यते नावस्थां बध्नाति ॥ इति 10 स्थितं शब्दप्रमाणनिराकरणम् ॥१०॥ [XI.] [अथ कार्यकारणभङ्गः] ___ यथुक्तिप्रमाणानधीनसत्ताकं न तत्प्रेक्षावतां व्यवहारावतारि, यथा व्योमारविन्दम् । युक्तिप्रमाणानधीनश्चासौ 15 कार्यकारणभावलक्षणः प्रतिबन्धः । न चायमसिद्धो हेतुः। तथाहि । असौ कार्यकारणभावलक्षणः प्रतिबन्धस्ताभ्यां भिन्नस्वभावो वा स्यात्, अभिन्नस्वभावो वा; भिन्नस्वभावोऽपि तयोः कार्यकारणयोः क्षणिकस्वभावयोर्वा वर्तेत, अक्षणिकस्वभावयोर्वा; क्षणिकस्वभावयोरपि प्रागप्रतिपन्न-20 कार्यकारणरूपयोर्वा यद्वा स्वभावेनैव कार्यकारणरूपयोः। तत्र यद्याद्यः पक्षः, तदा न युक्तं सर्वत्रैव कार्यकारणरूपेषु स्तम्भकुम्भाम्भोरुहादिषु पदार्थेषु भवेत्, तन्नियमकारणाभावात् । तथा तेन भिन्नस्वभावेन संबन्धनानयोः पूर्वरूपापनोदो विधीयते, पूर्वरूपसमुत्पादो वेति विकल्प्यते । 25 न तावदाद्यः पक्षो ज्यायान, विनाशहेतूनामाकिंचित्करस्वेन विनाशस्थाभावात् । तथाहि । असौ विनश्वरस्वभावानां भावानामभ्युपगम्यते, अविनश्वरस्वभावानां वेति

Loading...

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82