Book Title: Prameyratna Kosh
Author(s): Chandraprabhsuri
Publisher: Jain Dharm Prasarak Sabha
View full book text
________________
श्रीप्रमेयरत्नकोषः। चेत्स्वरूपेऽयं पक्षोऽभ्युपगम्यते, सोऽनुपपन्नः, स्वरूपेऽनुगमाभावात् । अथ पररूपे; ननु पररूपेऽप्यनुगमः किं तादात्म्यात्, समवायाद्वा । तत्र न तावत्तादात्म्यात्,
व्यतिरेकपक्षकक्षीकारात् । नापि तत्समवायात्, सामान्यस्य 5 समवायादर्थान्तरत्वेनाभ्युपगमात् ॥
अथ यदबाधितबोधगोचरचारि तत्समस्तं समस्ति, यथा स्तम्भकुम्भाम्भोरुहादयः पदार्थाः; अबाधितगोचरचारि च सामान्यमिति सामान्यसाधकस्यानुमानस्य विद्यमानत्वा
कथं प्रमाणाभावो भवता शंक्यतेति ब्रूषे । तदप्यनुपपन्न, 10 अबाधितबोधगोचरस्यापि वृत्तर्विकल्पैर्वाध्यमानत्वात् । तथाहि । तत्सामान्य व्यक्तिषु वर्तमानमेकदेशेन वा वर्तते, सामस्त्येन वेति द्वयी गतिः । यधुच्यते “एकदेशेन", तदनुपपन्नं, सामान्यस्य निरंशत्वेनाभ्युपगमात् । भवतु वांशः, तथापि किं येनैवांशेनैकस्यां व्यक्तौ तत्सामान्य 15 वर्तते तेनैवांशेन व्यत्यन्तरेऽपि, आहोस्विदंशान्तरेणेत्य
त्रापि कल्पनाद्वयम् । तत्र यद्याद्यः पक्षः कक्षीक्रियते, तयेकेनैवांशेन क्रोडीकृतत्वात्सर्वासां व्यक्तीनामेकत्वापत्तिः। अथांशान्तरेण, तीन खण्डीभूतत्वात्सामान्यस्य निःसामान्यतापत्तिः स्यात् । अथ सामस्त्येन वर्तते, तडॅकस्थां 20 व्यक्ती सामस्त्येन वृत्तत्वाद्वितीया व्यक्तिः सामान्यशून्या
प्राप्नोति । तथा तत्सामान्यमसमानासु व्यक्तिषु वर्तते, समानासु वा । तत्र यद्यसमानासु, तर्हि गोत्वसामान्य यथा गोषु वर्तते, एवं महिष्यादिष्वपि वर्तेत, अविशेषात्।
अथ समानासु; तदा समानत्वं स्वत एव विद्यते, सामा25 न्येन वा क्रियते । तत्र यदि स्वत एव विद्यते, तदा समानत्वस्य स्वत एव विद्यमानत्वात्तत्र प्रवर्तमानसामान्यमकिंचित्करमेव स्यात् । अथ सामान्येन क्रियते; तन्ननु

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82