Book Title: Prameyratna Kosh
Author(s): Chandraprabhsuri
Publisher: Jain Dharm Prasarak Sabha

View full book text
Previous | Next

Page 51
________________ ४४ श्रीप्रमेयरत्नकोषः । द्वयी गतिः, गत्यन्तराभावात् । यदि विनश्वरस्वभावाना भावानां, तर्हि तेषां स्वहेतुसंदोहादेवोत्पन्नत्वात्किं तत्र हेतुभिः कार्यम् । अथाविनश्वरस्वभावानां भावानां; इद मप्यसुन्दरं, यतो ये भावाः स्वहेतोरेवाविनश्वरस्वभावाः 5 समुत्पन्नाः, ते पुरन्दरशतैरपि नान्यथा कर्तुं शक्यन्ते, किमङ्ग पुनर्व्यतिरिक्तसंबन्धमात्रेण । नापि तेन संबन्धेनापूर्वरूपसमुत्पादः, तस्यापूर्वरूपस्य ताभ्यां भिन्नहेतुकत्वादर्थान्तरप्रसङ्गः । न हि निष्पन्नेष्वनिष्पन्नो भिन्नहेतुकस्त स्वभावो युक्तः, यतोऽयमेव हि भेदो भेदहेतुर्वा विरुद्ध10 धर्माध्यासः कारणभेदश्च । ततश्चेन्न भेदो विश्वमेकद्रव्यं स्यात् । ततश्च सहोत्पादविनाशौ स्याताम् । ततश्चार्थान्तरोत्पादात्कार्यकारणरूपे वस्तुनी तदवस्थे एवेति न तयोरन्ययोगेऽपि कार्यकारणरूपतापत्तिः। अथ द्वितीयपक्षः, तदा स्वभावत एव तयोः कार्यकारणरूपत्वात्कथं व्यति15 रिक्तः संबन्धो वैयर्थ्य नानुभवेत् । तथासौ संबन्धस्ताभ्यां कार्यकारणाभ्यां सहिताभ्यां जन्यते, असहिताभ्यां वेति भागीरथीविपुलपुलिनादवतरचक्रवाकयुगलमिव विकल्पद्वयममलमवतारमारचयति । तत्र यद्याद्यः पक्षः कक्षीकियते, तदासावनुपपन्नः । कार्यकारणयोः क्षणिकत्वेन चिर20 विनष्टत्वात्कथं कार्यकारणबुद्धिस्तन्निबन्धना स्यात् । नापि प्रत्येकजन्यः, यतोऽसौ कारणेन जन्यमानः संबन्धः स्वकार्यसहितो जन्यते, केवलो वेति विकल्प्यते; केवलोऽपि स्वकार्यात्पूर्व, पश्चाद्वा । तत्र स्वकार्यसहितश्चेत्समुत्पद्यते, तदोभयोरप्यन्यतोभावात्परस्परमसंबन्ध एवेति कार्यसंब25न्धतास्य हीयते । अथ स्वकार्यात्पूर्व कार्ये कारणेन जन्यते, तदा कारणस्य क्षणिकत्वेन चिरविनष्टत्वात्कथं स्वकार्यकरणम् । तदभावे कारणव्यापारोऽपि न स्यादिति कारणेन कथं कार्यकारणभावलक्षणः संबन्धो जन्यते । अथ स्वकार्यमु

Loading...

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82