Book Title: Prameyratna Kosh
Author(s): Chandraprabhsuri
Publisher: Jain Dharm Prasarak Sabha

View full book text
Previous | Next

Page 43
________________ ३६ श्रीप्रमेयरनकोषः। निश्चये, अन्यथा वा; प्रामाण्यनिश्चयोऽपि स्वतः, परतो वा; परतोऽपि प्रत्यक्षतः,अनुमानतो वा; अनुमानेनापि साध्यसाधनसंबन्धनिश्चयोत्पन्नेन, अन्येन वा; निश्चयोऽपि प्रत्य क्षेण, अनुमानेन वा; अनुमानेनापि किं तेनैव, अनुमाना5 न्तरेण वा; संबन्धोऽपि तादात्म्यलक्षणः, तदुत्पत्तिलक्षणो वा, समवायलक्षणः, संयोगलक्षणो वा; संयोगलक्षणोऽपि संयुक्तयोः, असंयुक्तयोर्वा; असंयुक्तयोरपि संयोगयोग्ययोः, अयोग्ययोर्वेति सप्तत्रिंशद्विकल्पाः ॥ ३७॥ तत्र यद्यप्रतीयमाना, अयं पक्षः सोऽसंगतः, अप्रतीय10 मानायाः सत्त्वस्यासिद्धेः। अथ प्रतीयमाना; तत्र विकल्पद्वयं कृतं, “प्रमाणेन वा, अप्रमाणेन वा" इति । तत्र यदि "अप्रमाणेन" इति पक्षः, सोऽसंगतः, अप्रमाणस्याकिंचित्करत्वात् । अथ प्रमाणेन, तत्रापि विकल्पद्वयं कृतं “प्रमाणेनापि प्रत्यक्षेण, अनुमानेन वा” इति । तत्र प्रत्यक्षं 15 यदि योगिज्ञानमभिप्रेतं, तदा वक्तव्यं “तद्योगिज्ञानं स्वसाकारतानिश्चये सति ज्ञानान्तरस्य साकारतां प्रतिपद्यते, अनिश्चये वा” । तत्र यद्याद्यः पक्षः, तदा साकारतानिश्चयः स्वतः, परतो वा । यदि स्वतः, तन्न संभवति, स्वात्मनि क्रियाविरोधात् । अथ परतः, तदा किं प्रत्य20 क्षेण, अनुमानेन वा । यदि प्रत्यक्षेण तदयुक्तम् । प्रत्यक्षं हि रूपादिविषयं रूपादिकमेवावलम्बते, न ज्ञानान्तरम् । ततश्च तत्राप्रविष्टं कथं तस्य साकारतां निश्चिनोति । अथानुमानेन; तदप्ययुक्तम् । तथाहि । अनुमानं लिङ्गादुत्पद्यते, लिङ्गं च विवक्षितभावधर्मः, अन्यभावधर्मः, अभावधर्मः, 25 उभयधर्मो वा । तत्र यदि विवक्षितभावधर्मों हेतुरिति निश्चीयते, तदानुमानवैयर्थ्यम् । अथान्यभावधर्मों हेतुः, तदा व्यधिकरणासिद्धो हेतुः । अथाभावधर्मः, तदा विरुद्धो हेतुः । अथोभयधर्मः, तदानैकान्तिको हेतुः । तन्नानु

Loading...

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82